________________
चन्द्रराजचरित्रम् - एकोनविंशः परिच्छेदः
वियोगस्यान्तः
अथ श्रीचन्द्रराजसंस्कृतचरित्रस्यैकोनविंशपरिच्छेदे वियोगस्यान्तः
ततः कुक्कुटराजस्य नेत्रालादकं लावण्यं दृष्ट्वैव लीलावत्या रोषो नश्यति स्म, तेन सा तस्य हार्दिकं स्नेहं कर्तुं लग्ना, सा निजाङ्के तस्य पिञ्जरं संस्थाप्य कुक्कुटं प्रति गदति स्म- हे पक्षिराज ! त्वया मुधैव मया सहैषोऽरिव्यवहारः कथं कृतः ? बहिर्मनोहरोऽपि त्वमन्तर्मलिनो लक्ष्यसे । तव रवो मे प्रियवियोगस्य हेतुर्जातस्त्वमनेन कल्मषेण कथं मोक्ष्यसे ? स्वर्णपिञ्जरे संस्थितस्त्वमविच्छिन्नं सुखमनुभवसि, अतस्ते परकीयपराभवस्य कुतो वेदनम् ? परं हे ताम्रचूडाधिप! पतिवियोगः सतीस्त्रीणां परमसह्यो भवतितमाम् | त्वं विहगोऽसि परं पक्षिणोऽपि स्वप्रियां विना व्याकुलतामादधते । पुनरहं तु नृजातिरस्मि, एका रमणी स्वरमणं विना कथं तिष्ठेत् ? | यदुक्तम्कति न सन्ति जना जगतीतले, तदपि तद्विरहाकुलितं मनः कति न सन्ति निशाकरतारकाः ?, कमलिनी मलिनी रविणा विना
॥१६॥ त्वया प्रागभवे न जाने कतिदम्पतिवियोगः कपटेन कारितो भवेत, अतो ज्ञायते यदत्र भवे त्वं तत्पापादेव पक्षी भूतोऽसि ।
|| १८६||