________________
चन्द्रराजचरित्रम् अष्टादशः परिच्छेदः
स्वदुहिता बोधयतोक्ता - पुत्रि ! मयाऽतिबोधितोऽपि नटजनः कथञ्चिदपि प्रसन्नो न भवति, अतस्त्वमिमं निरर्थकमाग्रहं मुञ्च । अत्रावसरे किञ्चिद् बोधिताऽपि लीलावती, परं कुक्कुटप्राप्तिं विनाऽन्नजलग्रहणस्य तस्याः प्रतिज्ञाऽऽसीत्, अतस्तत्सन्निधौ सकृत्कुक्कुटानयनस्यावश्यकता वरीवर्ति स्मेति विचार्य धीसखेन नटराजमाकार्य गदितम् - भवानेकवारं क्षणमात्रार्थमपि तं कुक्कुट - मानीय मे यच्छतु । अहं तं यथातथा पूर्ववत्सुरक्षितं प्रत्यर्पयिष्यामि चेद् विश्वासो न स्यात्तदा पुनरर्पणं यावद् मदङ्गजं स्वपार्थे रक्षतु । यदा भवच्चरणायुधं प्रदास्यामि, तदा भवताऽपि मे पुत्रः प्रदेयः । तस्यातिनिर्बन्धमवलोक्य नटराजेन तद्वचोऽवधार्य मन्त्रिपुत्रं स्वसमीपे रक्षित्वा कुक्कुटस्य पिञ्जरं मन्त्रिणे समर्पितम्, सोऽपि सादरेण तमानीय स्वात्मजायै प्रायच्छत् ।
|| १८८ ||
लीलाधरलीलावत्योर्वृत्तान्तः