________________
चन्द्रराजचरित्रम् - अष्टादशः परिच्छेदः लीलाधरलीलावत्योर्वृत्तान्तः सोऽवश्यमानीयाlतां, तमप्राप्याऽन्नजलं न ग्रहीष्यामि । दुहितुरिमां प्रतिज्ञां निशम्य चिन्ताब्धौ पतितेन तेनाऽन्यः कोऽप्युपायो नो दृष्टस्तस्मान्नटमाकार्य कुक्कुटप्रदानाय स विज्ञप्तस्तदा तेन कथितम्- मन्त्रिन ! मम परं दुःखमस्ति, यतः स ताम्रचूडो मया भवते न दास्यते, प्रथमस्तु तेन मम जीविका निर्वहति पुनरन्यत्स ममाधिपतिर्वर्तते । भवत्पुत्री तदुपरि रुष्टा जातेति मया श्रुतमस्ति, परं यावन्मम काये प्राणास्तिष्ठन्ति तावत्कोऽपि ताम्रचूडस्यैकं बालमपि वक्रीकर्तुं नाऽर्हति । अस्माकं पञ्चशतीसेना तु तद्रक्षणाय प्राणार्पणायोधुक्ता वर्तत एव, अपि च मत्पार्वेऽपरेऽप्यश्चवाराः सप्त सहस्रमितास्तद्रक्षणतत्परा एव सततं सावधानतया जागरूका विद्यन्ते । किमधिकम्कोऽप्यन्यः कल्पवृक्षोऽय-मेकोऽस्ति क्षितिमण्डले । यत्पाणिपल्लयोऽप्येकः, कुरुतेऽधः सुरद्रुमम् ॥९५॥
अत्र तेषां स्थानसंकीर्णतया नगराद् बहिस्तैरुत्तारकः कृतः। यदि कुक्कुटराजस्याऽऽज्ञा भवेत्तदा वयं सकृद महतोऽपि महद्राज्यं मृन्मयं कर्तुं प्रभवामः । यदि भवतः प्रत्ययो न स्यात्तदा सिंहलराजः पृच्छयताम, यत्कुक्कुटायं तस्य कीदृशी गतिर्जाता ? | कस्य साहसं विद्यते, यस्तदभिमुखं नैत्रमुत्थाप्य कुदृष्ट्या पश्येत् ? अहं तु भवन्तमेतदेव कथयिष्यामि, यद् भवानस्य कुक्कुटस्य वार्तामेव जहातु । अयं कश्चित्तुच्छस्ताम्रचूडो नैव, अतोऽस्य प्राप्त्याशा भवता न कर्तव्या । नटराजस्येदमुत्तरमाकर्ण्य विस्मितेन सचिवेन
|| १८७ ॥