________________
चन्द्रराजचरित्रम् - अष्टादशः परिच्छेदः लीलाधरलीलावत्योर्वृत्तान्तः
तदनन्तरं प्राप्तचेतना सा विलापं कृत्वा कथयितुमारेभेहा दैव ! न जाने केन वैरिणा कुक्कुट रक्षित्वा ममेत्थमहितमाचरितं? नगरे कोऽस्त्येवंविधो मनुष्यो येन मम तातादेशमुल्लङ्घ्य कुक्कुटरक्षणसाहसं विहितमस्ति ? हे विधातः ! त्वया चेत्कुक्कुटो न निर्मितो भवेत्तदाऽद्येत्थं मे पतिवियोगो नो जायेत ? ततो लीलावत्या त्वरितं स्वजनकमाह्वाय तस्मै स्वपतिविदेशगमनवृत्तान्तो निवेदितः सहैवाऽत्याग्रहपूर्वकमुक्तम्- येन ताम्रचूडेन मया सहाऽरिव्यवहारः कृतस्तं कथञ्चिदपि मृगयित्वा मह्यमर्पय । दुहितुः कथनेन तेन कुक्कुटान्वेषणाय चतुर्दिक्षु भुजिष्याः प्रधाविताः, परं सर्वत्र नगरे निरीक्षमाणैस्तैः कुत्राऽपि कुक्कुटस्य शुद्धिर्न प्राप्ता | अन्ते तेषां विदितमभूत, यन्नटपार्वे कुक्कुटो विद्यते, अतस्तैरमात्याय निवेदितं तेन च स्वाङ्गजा कथिता-पुत्रि ! स ताम्रचूडो नटनिकटे वर्तते, ये ह्यो दिन एवात्र समायाताः सन्ति । ते परदेशिनो विद्यन्ते, सहैव ममाऽतिथयोऽपि सन्ति, अतस्तत्पार्धात्तद्याचनं नोचितम् । उक्तमपियाचना हि पुरुषस्य महत्त्वं, नाशयत्यखिलमेव तथाहि । सद्य एव भगवानपि विष्णु-मिनो भवति याचितुमिच्छन् ॥१४॥
नटाः प्रायो दुराग्रहा बोभुवति, अतो मार्गणेऽपि ते न दास्यन्ति, पुनर्यद् भाव्यं तदभूत, अतस्तदर्थं तेऽतिनिर्बन्धो नोचितः। ततस्तयाऽभाणि- नहि तात ! स चरणायुधस्तु मे रिपुरस्ति, तत्प्राणापहरणं विना मां शान्तिन संगस्यते, अतो यथा स्यात्तथा
|| १८६ ॥