________________
चन्द्रराजचरित्रम्
पिता मम विवाहस्य चिन्तां कर्तुं लग्नः ।
यतः
कन्येति जाता महती हि चिन्ता, कस्मै प्रदेयेति महान् वितर्कः । दत्ता सुखं यास्यति वा न वेति, कन्यापितृत्वं खलु कष्टदायि ॥ ६ ॥
-
प्रथमः परिच्छेदः
श्रीचन्द्रकुमारस्य जन्म
तावदेवैकस्मिन् दिने कश्चिन्मौहूर्तिकस्तत्राजगाम, तातश्च मद्विवाहविषयं तं पर्यपृच्छत् स च तव पुत्र्या आभानरेशेन सह परिणयो भविष्यतीति मे पितरं जगाद । श्रुत्वैतद् वृत्तं स मे जनको पद्मशेखरनृपो भृशं तुतोष, अहमपि स्वप्रियस्य नाम गुणशरीरसौन्दर्यसल्लक्षणादिकं ज्ञात्वाऽऽनन्दमगच्छम् । तदनन्तरं गणकाय वस्त्रभूषणद्रव्यादिकं पारितोषिकं दत्त्वा व्यसर्जयत् ।
अथाहमेकदा स्ववयस्याभिः साकं जलक्रीडार्थं गतवती, तत्रैव प्रथममहमेनं योगिनमपश्यम् । अयमिन्द्रजालं कृत्वा सखीनेत्रं बबन्ध, मां च संमोहयित्वोत्थाप्यानयत् । अस्य पूजाविधिं दृष्ट्वाऽहमस्योद्देशमवागच्छम् । स्वस्य च नाशं निकटं ज्ञात्वा रोदितुं लग्ना, सौभाग्यवशादुचितकाले भवानत्रागतोऽतः परं यत्किञ्चिदभूत्तद् भवान् जानात्येव परं हे गुणसागर ! भवद्भिरन्या नहि किन्तु स्वकीयैव स्त्री रक्षिता ।
"
यदुक्तं
पिता रक्षति कौमारे, भर्ता रक्षति यौवने ।
पुत्रश्च स्थाविरे भावे, न स्त्री स्वातन्त्र्यमर्हति
॥७॥
इति भवत इदं कार्यमुपकाररूपेण नाहं मन्ये, पुनर्नाहं याचिकास्मि, यतो याचिका चेत्स्यां धन्यवादमपि दद्यां भवतो
॥ ८ ॥