________________
चन्द्रराजचरित्रम् - प्रथमः परिच्छेदः श्रीचन्द्रकुमारस्य जन्म यशोगानं च कुर्याम् । मां कथमभिजानासीति यद्भवानप्राक्षीत्तत्तु मत्कृते भवतः सदाचरणसुलक्षणादिकमेव भवतोऽभिज्ञानाय पर्याप्तमासीत् । यतःआचारः कुलमाख्याति, देशमाख्याति भाषणम् । संभ्रमः स्नेहमाख्याति, यपुराख्याति भोजनम् ॥८॥
एतादृशि विपदि प्राणनाथमन्तरा कोऽन्यः सहायो भवितुमर्हेत्स्वप्रियायाश्च प्राणान् रक्षेत् । चन्द्रावत्या एतद्वचनं श्रुत्वा राजा वीरसेनः परं मुमोद | स तां गृहीत्वा तेनैव मार्गेण बहिनि:ससार येनान्तरगमत्तस्मिन्नेव क्षणे तस्य सेना सहचराश्च तत्पादचिह्न पश्यन्तस्तत्राजग्मुः, सर्वे च राजानं प्रणेमुः । राज्ञः प्रियार्हाः कुशलवृत्तं पृच्छन्तो राजानं प्रोचुः-राजन् ! एकाकिनो भवत इत्थमाखेटानुधावनमुचितं नासीत् । जगति रत्नानि रत्नधियैव रक्षणीयानि । भवन्तश्चास्मादृशाममूल्यरत्नान्येव सन्ति । पुनः संसारे सज्जनापेक्षया दुर्जना एव बहुला भवन्ति । भवन्तश्चातीव भाग्यशालिनोऽतो भवतां कष्टमनायासेन दूरीभूय संपत्तिप्राप्तिमेव विदधाति । परमस्माभिः स्वस्थैः कथं भाव्यं ? कुशलिनं भवन्तं दृष्ट्वाऽस्माकं नूतनं जीवनमिवावाप्तमस्ति । परं हे राजन्! भवांस्त्वेकाक्येवागतवानासीदिदानीं भवता सह रमणीवरेयं कास्ति? राजा सर्वमात्मवृत्तं कथयति स्म । तन्निशम्य सर्वे सानन्दा बभूवुः। राजा वीरसेनः स्वसैन्यै राजकन्यया च सह निजनगरीमाजगाम | आगच्छन्नेव स्वदूतं प्रेषयित्वा राज्ञे पद्मशेखराय विज्ञापितवान् तव पुत्री चन्द्रावती सात्रागता श्रीमता सह
||६
॥