________________
चन्द्रराजचरित्रम् - अष्टादशः परिच्छेदः लीलाधरलीलावत्योवृत्तान्तः स्वभवनमानाययत् । तदा तत्स्थिरनिवासायैकतो यात्रासमारोहः प्रारब्धः, अपरत्र सचिवेन समस्तं स्वसेवकमण्डलमाहूय तेभ्यो रहस्यरूपेणादिष्टम्- नगरे यावन्तश्चरणायुधा भवेयुस्तान् सर्वानेकत्र नगराद् बहिः प्रेषय, यथा नगरे नैकोऽपि ताम्रचूडोऽवशिष्येत, यतस्तद्रवं शृण्वन्नेव जामाता परदेशं प्रयास्यति । एतद्रहस्यं यथा जामाता नाऽवगच्छेत्तथा सुगुप्तेन भवितव्यमित्यपि वेदितव्यम्। एतद्वृत्तान्ते प्राप्त एव सेवकैर्नगरस्थाः सर्वेऽपि कुक्कुटा ग्रामाद् बहिः प्रेषिताः । इतो लीलाधरः स्वमार्गसामग्रीप्रगुणीकरणे तत्पर आसीदेवेति कथमपि रात्रिं व्यत्याययत् । प्रातर्यदा चरणायुधस्य प्रलपनवेलोपस्थिता, तदा लीलाधरः सावधानकर्णेनोपविष्ट: परं नगरे यदा कुक्कुटो भवेत्तदा वदेदिति शनैः शनैः प्रातरभूत्परं तद्ध्वनिः कुत्राऽपि नाऽश्रूयत । तद् दृष्ट्वाऽधीरो लीलाधरो वक्तुमारभत- यात्राऽवसरो निर्गच्छति, अतोऽहं त्वरितमेव व्रजामि। परं धीसखेन कुक्कुटशब्दं श्रुत्वा गन्तव्यमिति गणकगदनमुक्त्वा स निवारितस्ततो निरुपायस्य तस्य लीलाधरस्य स्थातव्यमेवाभूत्। पुनरन्यस्मिन् दिने कुक्कुटे वदत्येव यात्रां करिष्यामि, एकदिनकृते न किमपि व्येतीति विचारयन् सोऽपि तस्थौ । ततस्तृतीयेऽपि घस्रे सैवाऽवस्था जाता या पूर्वदिनेऽभूत् । अस्य मन्त्रिप्रपञ्चस्याऽनभिज्ञतया लीलाधरस्य हृदि विदेशगमनस्य तीव्राऽभिलाषायां सत्यामपि स सुमुहूर्ताऽपेक्षया पुनरपि स्थगितोऽभूत् । इतो लीलावती तं स्वस्नेहाऽऽनाये पातयितुमुरुचेष्टां कुर्वाणाऽऽसीदन्यत्र मन्त्रिणो धनदेभ्यस्य च प्रबोधनं प्रवर्तमानमासीत् । प्रान्तेऽस्योद्योगस्येदं फलं जातम्, यदेकैकेन दिनेन षण्मास्यपि व्यतीता परं
|| १८३ ।।