________________
चन्द्रराजचरित्रम् - अष्टादशः परिच्छेदः लीलाधरलीलावत्योवृत्तान्तः नाऽप्याकर्णितः । तेन ध्यातं यदधुना लीलाधरस्य प्रतिबोधनेन कोऽपि लाभो न भविष्यतीति तेनैको नूतनोपायो विचारितः । स धनदश्रेष्ठिसन्निधौ समेत्य तं कथयति स्म- यद्यस्य विदेश एव गन्तव्योऽस्ति, अयं च कथमपि स्थातुं नेच्छति, तदाऽस्य रोधनं न वरं, परं तत्र प्रचुरधनप्राप्तिः स्यात्तदर्थं शुभमुहूर्ते यात्रा कारयितव्या। भवत्सम्मतिश्चेत्तदोत्तममौहूर्तिकानाकार्य कश्चिदुत्तमो मुहूर्तः पृच्छयेत। लीलाधरस्य जनकेनाऽपि मन्त्रिण इयमुक्तिः समर्थिता । लीलाधरोऽपि तत्र कमपि विरोधं नाऽकार्षीत्, अतोऽमात्येनाऽनेकदैवज्ञानाह्वाय ससकेतं तेभ्यः सुमुहूर्ताऽवलोकनायोक्तम् । मन्त्रिणः साङ्केतिक-वचनेन लीलाधरस्य विदेशगमनविरोधज्ञैर्दैवज्ञैर्मुहुर्मुहुः पञ्चाङ्गं विलोक्योक्तम्- षण्मासान् यावच्छुभमुहूर्तो न दृश्यते, परमयमेतावत्कालं चेत्स्थातुं नेच्छेत्तदा कस्मिन्नपि दिने उपसि कुक्कुटे रुत एव यात्रां कर्तुमर्हति । इत्थमपि गमने कृते विदेशे विपुलधनप्राप्तिर्भविष्यतीति तेषामिदं कथनमाकर्ण्य प्रधानेन तेभ्यो यथोचितं दक्षिणां दत्त्वा ते विसृष्टाः । शास्त्रेऽप्युक्तम्यथासत्यैकभूषणा याणी, विद्या विरतिभूषणा । धमैकभूषणा मूर्ति-लक्ष्मीः सद्दानभूषणा
॥८९॥ अपि चप्रदत्तस्य प्रभुक्तस्य, दृश्यते महदन्तरम् । दत्तं श्रेयांसि संसूते, विष्ठा भवति भक्षितम् ९०॥
ततस्तेन यात्रायाः कार्यमिषेण लीलाधरं लीलावतीं च
|| १८२ ।।