________________
चन्द्रराजचरित्रम - अष्टादशः परिच्छेदः लीलाधरलीलावत्योर्वत्तान्तः नोत्थाप्य तेन सुतेन सह खादितम् । द्वितीये दिने गमनस्य निश्चयं कृत्वा तं शयनाऽऽगारे संवेशाय प्रेषयत् । स यावच्छयनागारमेत्य मौनत्वेनैव सुप्तस्तावल्लीलावती पूर्ववल्ललितगत्या हावभावविलासं दर्शयन्त्युपलीलाधरमागता परमन्यदिनवत्तस्य हासालापविषयभोगादिकं तु दूरे तिष्ठतु, प्रत्युताद्य तेन नेत्रमुत्थाप्यापि तत्संमुखं नावलोकितं स तु स्वविचार एव निमग्न आसीत् । तस्यैतामवस्थामवलोक्य तयाऽगादि- प्रिय ! मयाऽऽकर्णितं यद् भवानन्यत्र देशे गन्तुकामोऽस्ति, परमेवं सर्वेभ्यो बन्धुभ्यो रुष्ट्वा गमनं न वरम् । ममैतादृशः कोऽपराधो जातो येन भवते मदभिमुखं दर्शनमपि नो रोचते । अन्यजनरुष्टेन भवता गन्तुं शक्यते, परमहं भवन्तमेवं जात्वपि गन्तुं न दास्यामि । एतादृशि स्नेहेऽकस्माद् वियोगे जाते पुनर्न जाने कदा संयोगो भविष्यति ? अतो यावद् भवेत्तत्र गमनविचार एव त्यज्यताम् । अथवा सहास्यविनोदं सर्वैर्मिलित्वा यथासम्मति गम्यताम्, तथा केऽपि भवन्तं प्रति दुर्भावं न रक्षेयुः । इत्थं लीलावत्या स्वकान्तं निशां यावत्प्रबोध्य तद्विचारपरावर्तनस्य महती चेष्टा कृता, परं दृढागूवति तस्मिन् लेशमात्रमपि सा सफला न जाता | यथायथा चित्तं तथा याचो, यथा वाचस्तथा क्रियाः । धन्यास्ते त्रितये येषां, विसंवादो न विद्यते ૮૮ના
पुनः प्रातस्तत्पित्राऽपि प्रबोधितो लीलाधरः स्वसङ्कल्पमयथाकर्तुं कथमपि सम्मतो नाऽभूत, एवं सर्वोऽपि वृत्तान्तोऽमात्ये
|| १८१ ॥