________________
चन्द्रराजचरित्रम् - अष्टादशः परिच्छेदः
लीलाधरलीलावत्योवृत्तान्तः
यदुक्तम्यो न निर्गत्य निःशेषा-मालोकयति मेदिनीम् । अनेकाश्चर्यसम्पूर्णां, स नरः कूपदर्दुरः
૮દા __अत इयमेवैका ममाऽभिलाषा वर्तते । पुत्रोक्तमिदमाकर्ण्य श्रेष्ठी चकितो जातस्तद्गेहे धनस्य त्रुटिर्नाऽऽसीत्तथापि तस्य प्रियपुत्रस्तदर्थं परदेशगमनाभिलाषुकोऽभूत्, तस्मात्तेन तद्बोधनपूर्वकमुक्तम्- सुपुत्र ! तव वयः साम्प्रतं बह्वल्पमस्ति, ततस्ते विदेशगमनं सम्प्रत्यसाम्प्रतं, पुनरपि तव परिणयकालोऽपि अल्प एव जातोऽस्ति स्वसदने धनधान्यस्याऽभावोऽपि न वर्तते, अस्यां दशायां ते विदेशगमस्याऽऽवश्यकता कापि नास्ति । पितुरिदं वचो निशम्य लीलाधरेण तस्य भिक्षोर्वार्तामाख्याय जनकं प्रत्युचेमन्मानसेऽस्या वार्तायाः सुदृढः प्रभावः पतितोऽस्ति, अतोऽहं सकृदपि परदेशमवश्यं यास्यामि । पुत्रोद्वेगस्यादो यथार्थकारणं विज्ञाय श्रेष्ठिना भृशं प्रबोधितम्, भिक्षुकवार्ताप्रभावाऽपनोदाय च बहु चेष्टितम्, परमवकेशिवृक्षवत्सर्वोऽपि यत्नो विफलो जातः । इत्थं लीलाधरस्य मात्रा, तथा सचिवादिप्रमुखैरन्यैरपि लोकैः प्रबोधितोऽपि धीरो लीलाधरः स्वसङ्कल्पात्किञ्चिदपि न विचेलिवान्। यतःअर्थः सुखं कीर्तिरपीह माभू-दनर्थ एवास्तु तथापि धीराः । निजप्रतिज्ञामधिरुढमाना, महोद्यमाः कर्म समारभन्ते ॥७॥
तस्य विदेशगमनोत्कण्ठा तथा प्रवर्धिता यथा स पितुर्विदेशगमननिदेशावाप्तिं विनाऽन्नजलग्रहणमपि नैच्छत, परं कथञ्चिच्छेष्ठि
|| १८० ॥