________________
चन्द्रराजचरित्रम् - अष्टादशः परिच्छेदः
लीलाधरलीलावत्योर्वृत्तान्तः
यतःशास्त्रं बोधाय दानाय, धनं धर्माय जीवितम् । यपुः परोपकाराय, धारयन्ति मनीषिणः ॥८४॥
मिक्षोरिमामुक्तिं श्रुत्वा वीडितेन लीलाधरेण तदधिं स्पृष्ट्वोचे- हे भिक्षुराड् ! अद्यप्रभृति त्वं मे गुरुर्जातः । अहं त्वदीयमेतद्वचनं निशम्य प्रतिकूलममत्वा सुशिक्षामेव निजात्मनि ग्रहीष्यामि, स्वयं च व्यवसायादिकं विधाय धनोपार्जनप्रयत्न विधास्यामि । भिक्षुस्त्वित्थमृतमप्रियं वचः श्रावयित्वा तदैव चेलिवान, परं तत्कथनं लीलाधरहृत्पटोपरि सम्यगङ्कितमभूत्तेन स मनस्येव विदेशगमननिश्चयं चक्रे | पुनः स्वचेतस्येव वक्तुं प्रारेभे- परदेशो दुःखजनक इति लोकोक्तिर्निःसारैव, यतो गृहे परदेशे वा तिष्ठतोऽखिलप्राणिनः प्राक्तनकर्मजन्यं सुखं दुःखं वाऽवश्यं भोक्तव्यमेव भवति । यतःअकारणं सत्त्वमकारणं तपो, जगत्त्रयव्यापि यशोऽप्यकारणम्। अकारणं रूपमकारणं गुणाः, पुराणमेकं नूषु कर्म कारणम्॥८५॥
अतो गृहे तिष्ठतोऽपि दुःखान्मुक्तिरसम्भवा, इत्थं दृढसङ्कल्पाऽऽकलितोऽसौ त्रुटितायामेकस्यां खट्वायां प्रसुप्तवान्, तदैव तत्पिता धनदोऽपि समागतः । गृहागतेन तेन तथाऽवस्थः सुप्तस्तनयो दृष्टः पृष्टश्च- प्रियपुत्र ! केन कदर्थितो येन त्वं रुष्टस्सन पतितोऽसि? तेनाऽभिहितम- तात! न मे केनाऽपि किञ्चिदुःखं दत्तमस्ति, परं द्रविणोपार्जनाथं विदेशं गन्तुकामो भवदादेशं कामये ।
|| १७६ ॥