________________
चन्द्रराजचरित्रम् - अष्टादशः परिच्छेदः लीलाधरलीलावत्योर्वृत्तान्तः नन्तरं दोगुन्दुकदेववदथवा माररतिवद् विषयसुखभोगं कुर्वाणं स्वसमयं गमयामास । अन्यदा पुण्यहीनः कश्चित्परिव्राड् लीलाधरनिकटे याचनार्थमायातः, परं लीलाधरेण तं तिरस्कृत्य स बहिनिष्कासितः । ततः क्रोधाऽऽध्मातेन तेन परिव्राजा सकोपाटोपं लीलाधरं प्रत्युक्तम्- हे श्रेष्ठिन् ! भवतैवमभिमानो मा क्रियतामहं यथातथाऽस्मि, परं भवतस्तु कस्मिंश्चिदंशे श्रेयानेवाऽस्मि । यतोऽहं स्वशयोपार्जितं भुजे, त्वं तु स्वजनकोपार्जितधने जीवितं गमयसि। अहं त्वद्वदन्योपकृत्याऽऽभारितो नास्मि, यो निजभुजाभ्यां धनोपार्जनं न कुरुते तज्जीवनं धिक् । परद्रव्यावलम्बनेनोच्छलनकुर्दनं न वरं, यावत्तव जनयिता जीवन विद्यते तावन्निश्चिन्तोऽसि, तदभावे न जाने का ते दशा भविष्यति ? तदवस्थायामयं यौवनधनमदः कस्मिन्नपि कार्ये नोपयोगमायास्यति । अद्य ममेमां दशां विलोक्य स्मयमानोऽसि, परं संभाव्यते, यत् यो भवदीयाऽपि दशेत्थमेव स्यात्, जना भवन्तं दर्श दर्श हसेयुः । अतो जगति भृशं विचार्य वर्तितव्यं, स्वप्नेऽपि च गत्वरायुयॊवनधनाभिमानो न कार्यः । यतःसंपदो जलतरङ्गविलोला, यौवनं त्रिचतुराणि दिनानि । शारदाभ्रमिव चञ्चलमायुः, किं धनैः ? कुरुत धर्ममनिन्द्यम्॥८३॥
भवदङ्गुलीषु रत्नखचितान्यङ्गुलीयकानि सन्ति, तानि वीक्ष्य प्रायो भवान प्रसन्नो भवेत्, परं नेयं काऽपि गौरववार्ता । यतः संसृतौ पामरोऽपि जन एतादृशीं मुद्रिका परिदधाति । परं महान्तमहं तमेव मन्ये, यः स्वोपार्जितेन धनेन जीवति, उरुभावनां भावयन् परोपकारं च करोति ।
|| १७८ ॥