________________
चन्द्रराजचरित्रम् - अष्टादशः परिच्छेदः लीलाधरलीलावत्योवृत्तान्तः अनुसरति करिकपोलं,भ्रमरःश्रवणेन ताड्यमानोऽपि । गणयति न तिरस्कारं, दानान्थविलोचनो नीचः ॥८१॥
द्रुतमेव स्वसैन्यं सज्जीकृत्य तदाक्रमणाय न्यगद्यत । परं नटसन्निधावपि राज्ञश्चन्द्रस्य रक्षणायाऽपरिमितं सैन्यमासीदित्युभयोः सैन्ययोर्मीषणं युद्धं प्रवर्तितं, पत्तिभिः पत्तयोऽववारैरक्षवारा योद्धं लग्नाः । विद्युदिवाऽसयो विद्योतन्ते स्म, कियत्कालमुभाभ्यां भटाभ्यां प्रधनं कृतं, परमन्ते सिंहलेशितुः सैन्यं पृष्ठं दर्शयित्वा कान्दिशीकं जातम् । अनेन पराजयेन विगोपितः सिंहलपतिरनुतापं लेभे | यथोक्तम्नाभ्यस्ता भुवि यादिवृन्ददमनी विद्या विनीतोचिता, खड्गागः करिकुम्भपीठदलनैर्नाकं न नीतं यशः । कान्ताकोमलपल्लयाधररसः पीतो न चन्द्रोदये, तारुण्यं गतमेव निष्फलमहो ! शून्यालये दीपयत् ॥८२॥
तदनन्तरं शैलूपैः पिञ्जरं गृहीत्वा पटहनादं कुर्वद्भिः पोतनपुरप्रस्थानाय प्रतस्थे, परितस्ताम्रचूडाऽधिपस्य च जयशब्दः प्रोचे।
कियत्कालानन्तरं कृशाधिनां मण्डली तत्र समागता, अतिविशालं सुपर्वपुरनिभं पोतनपुरं विलोक्य साक्षादिन्दिराऽऽवास इवामन्यत । तत्र जयसिंहाख्यो भूजानी राज्यं करोति स्म । तस्य सुबुद्धिनामा सचिव आसीत्तस्यातिरूपवती मञ्जूषाख्या प्रिया, रूपगुणसम्पन्ना लीलावत्यभिधाना कन्या चाऽऽसीत् । तस्यास्तन्नगरवास्तव्येन लीलाधरनामवणिकपुत्रेण सह पाणिपीडनं कारितम् । तद्वन्द्वं परस्परमुपयुक्तं विलोक्य विधात्रा मणिकाञ्चनयोर्योगः कृतोऽस्तीति लोका उक्तवन्त आसन् । एतद्युग्मं परिणया
|| १७७ ।।