________________
चन्द्रराजचरित्रम् - अष्टादशः परिच्छेदः लीलाधरलीलावत्योर्वृत्तान्तः
अतो यथा भवेत्तथा मे स कुक्कुटोऽवश्यमानीय दीयताम्। राझ्याः प्रभूतमाग्रहं विदित्वा तेन तदानयनाय नटपार्थे स्वभृत्यः प्रेषितस्तेन शिवकुमाराऽन्तिकं गत्वा कुक्कुटो याचितः, शिवकुमारेण तस्योत्तरं ददता कथितम्-अयं ताम्रचूडो नैव किन्तु मम राजाऽस्ति, यदि स कुक्कुट इच्छेत्तर्हि यस्मै कस्मैचनापि मां दातुं शक्नुयात्, परं नाहं तं दातुं प्रभविष्णुरस्मि | अस्माभिर्नृपाय नाटकं दर्शितं, अतस्तेन कुक्कुटयाचनस्य दुःसाहसं कृतम् । परमहं तं बोधयितुमिच्छामि, यत्तेन मह्यं विपुलद्रव्यस्य दानं न दत्तमस्ति । ईश्वराऽनुकम्पया मेऽनेकस्थाने ततोऽपि महद् महद् वस्तु मिलितं, अतस्त्वं निजराजानं गत्वा कथय, यत्तस्येदमवाच्ययाचनं कथमपि पूरयितुं न शक्यते । तदा तेन गदितम्-कुक्कुटप्राप्त्यै मे स्वामी समुत्को न विद्यते, परं मे राजमहिषी तदर्थं बहु लालायिताऽस्ति, चेत्तस्याः कृकवाकुरयं नाऽमिलिष्यत्तदा सा प्राणानत्यक्ष्यत् । ततस्तैरखिलैनटैरूचे- राज्ञी प्राणत्यागं करोतु परं वयं केनाऽपि प्रकारेण कुक्कुटार्पणाय शक्ता न भविष्यामः । यथा राज्ञः स्वप्रिया प्रियाऽस्ति, तथैवास्माकमप्ययं कुक्कुटोऽतीव प्रियोऽस्ति । तेषां तद्वचनं निशम्य राजसेवको म्लानाऽऽस्यं विधाय ततो वलित्वाऽऽयातः | उक्तमपिदक्षिणाशाप्रवृत्तस्य, प्रसारितकरस्य च । तेजस्तेजस्विनोऽर्कस्य, हियतेऽन्यस्य का कथा ? ॥८॥
राज्ञा यदा तदाननान्नटोक्तवृत्तमाकर्णितं, तदा कोपाऽऽकुलेन तेन वक्तुं प्रारेभे-अहमिदानीमेव तान् विडम्ब्य ताम्रचूडमानयामि। यतः
।। १७६ ।।