________________
चन्द्रराजचरित्रम् - अष्टादशः परिच्छेदः लीलाधरलीलावत्योर्वृत्तान्तः वाक्यं संवदतां वपुः प्रभवतां लक्ष्मीपतिः प्रीयतामायुस्ते शरदां शतं विजयतां दानाय दीर्घायुषे ॥७८॥
पुनः स्वोत्तारकमागताः पोतनपुरप्रस्थानसज्जनं कर्तुं लग्नाः। इतः सिंहलपतेः प्रिया सिंहला मनोज्ञताम्रचूडदर्शनेन तस्मिन्ननुरक्ता संजाता । तया राजानमाकार्योक्तम्- प्रिय ! केनापि प्रकारेण स कृकवाकुरानीय मह्यं दीयतां तस्मिन्महती मनोमोहनीया शक्तिविद्यते । तेन निजसौन्दर्येण विश्वमपि स्ववशीकृत्य रक्षितोऽस्तीवेति स चरणायुधो मेऽतीव रोचते । तं विनाऽहं तथैव व्याकुलीभवामि, यथाऽपो विना मीना व्याकुलीभवन्ति । तेन मे मनोऽपहृतं मम प्राणास्तत्रैव संलग्नाः सन्ति, तस्माद्यथातथाऽऽनीय दीयताम् । भूपेन भणितम्- प्रिये ! एकेन खगेन सहैतावद्धार्दकरणं न वरम्। तेन कुक्कुटेन तु नटानां जीविका चलति, ततस्तन्मार्गणेनाऽपि ते कथं दातुं शक्ष्यन्ति ? यदि कोऽपि मम याचनं कुर्यात्तदा तस्मै किं त्वं मां दास्यसि ? तथैव तेऽपि कदापि तं दातुं न शक्ष्यन्ति, अतस्तदर्थं ते हठकरणं नोचितम् । तन्निशम्य तया गद्गदस्वरेण प्रोक्तम्- प्रिय ! तथ्यं ते वचनं परं तेन विना मम नैजं जीवनं भारभूतमिव ज्ञायते । नटानां धनप्रलोभने दत्ते तेऽवश्यं दास्यन्त्येव यतो द्रव्योपार्जनाय संसारे संसारिणो जनाः किं किं न कुर्वन्ति? यतःयदुर्गामटवीमटन्ति विकटं कामन्ति देशान्तरं, गाहन्ते गहनं समुद्रमतुलक्लेशां कृषि कुर्वते । सेवन्ते कृपणं पतिं गजघटासङ्घट्टदुःसञ्चरं, सर्पन्ति प्रधनं धनान्धितधियस्तल्लोभविस्फूर्जितम् ॥७९॥
|| १७५ ।।