________________
सप्तदशः परिच्छेदः
वीरमत्याः कुक्कुटमुक्तिः
किञ्चित्कालाऽनन्तरं पुनः सा तं ध्यायन्ती वक्तुमारभतकुत्र गतवान् मे स्वामी, कुत्र यातास्ते नवनवरसानन्दाः क्व षोडशशृङ्गारास्ते ?, कुत्र च तदपूर्वस्नेहो गतः ? अहो ! यथैन्द्रजालिका विविधबाह्यमायां विस्तार्य तां पुनः संहरन्ति तथैवैताः सर्वा वार्ता अपि स्वमधुरस्मृतिरूपं परित्यज्य न जाने कुत्र प्रयाताः । हे नाथ ! भवद्गमनाद् मेऽतितरां व्यथा जायते, परं परमेश्वरं प्रति संप्रतीयमेवाभ्यर्थना विद्यते, यद्यत्र भवन्तस्तिष्ठेयुस्तत्रैव सुखिनो दीर्घायुषो भूयासुर्भवद्यशोवृद्धिश्च भूयादियमेव ममाऽभिलाषा बोभूयते । हे नाथ ! जीवनाधार ! सहैवेयं दास्यपि स्मरणीया न तु विस्मरणीया किमधिकं ब्रूयाम् ? |
यतः
इन्दुं कैरविणीव कोकपटलीयाम्भोजिनीबान्धवं, मेघं चातकमण्डलीय मधुपश्रेणीय पुष्पाकरम् । माकन्दं पिकसुन्दरीय तरुणी प्राणेधरं प्रोषितं, चेतोवृत्तिरियं मम प्रियसखे ! त्यां द्रष्टुमुत्कण्ठते ॥७५॥
चन्द्रराजचरित्रम्
इत्थं विरहाऽनलेनाऽहर्निशं दंदह्यमानायास्तस्याः कृत्स्नमपि राजभवनं श्मशानमिव शून्यं प्रत्यैयत । शृङ्गारचाङ्गार इवोपालक्ष्यत, तद्विग्रहो म्लानः कान्तिरहितश्च समजायत । तथापि स्वभावतो धर्मिष्ठा साऽशुभकर्मणामुदयं मत्वा तत्कर्मक्षयाय प्रत्यहं नवं नवं तपः कुर्वती सती परमात्मनो ध्याने निमग्नाऽतिष्ठत् ।
यतः
जन्मकोटिकृतमेकहेलया, कर्म तीव्रतपसा विलीयते । किं न दाह्यमतिबह्वपि क्षणा - दुच्छिखेन शिखिनात्र दह्यते ॥ ७६ ॥
।। १७१ ।।