________________
चन्द्रराजचरित्रम् - सप्तदशः परिच्छेदः वीरमत्याः कुक्कुटमुक्तिः
परमत्र पाठका एतन्न जानीयुर्यद् गुणावली तावन्मात्रमेव विलापं कृत्वा स्वस्था जाता । सा स्वभर्तृ रक्षाकृते विशेषतश्चिन्तिता सती तदैव स्वाधीनस्थान सप्त माण्डलिकान राज्ञो बोधयित्वा शिवमालया साकं वासार्थं प्रेषयामास । ते राजानः स्वभटैः सत्रा सदा शिवमालायाः पार्थे तिष्ठन्तः सर्वथा राज्ञश्चन्द्रस्य रक्षां कुर्वन्त आसन् । तै राज्ञे चन्द्राय स्पष्टं निवेदितम्-वयं गुणावल्यादेशेन भवद्गोपनायाऽत्राऽऽगताः स्मः, अतःपरं सर्वदा भवता सहैव स्थास्यामः । भवान् कुक्कुटो जातस्तेन किं जातम् ? अस्माकं तु भवानिदानीमपि स एव स्वामी विद्यते, यः पूर्वमासीत् । राज्ञामदो वचो निशम्य शीर्षकम्पनसंकेतेन कुक्कुटराजेन तेभ्यः स्वसहवासायाऽऽदेशो दत्तः । ततो नटानामयं संघः साम्प्रतमतिमहान् सातः । शिवकुमारस्य शिवमालायाच करे कुक्कुटोऽयं किमागात्, तयोर्भाग्यमेव परावृत्येवागंतमित्यनुमीयते । सप्त राजानस्तद्भटाश्च तेन सत्राऽधुना चलन्ति यतोऽयं सयो निर्गच्छति स्म, तत्रैव प्रेक्षकाणां वृन्दैर्मार्गसाकुल्यं वर्तते स्म । तेषां गमनपरिपाट्यप्यपूर्वैवासीत्ताम्रचूडाधिपः सदा सुखेन स्वर्णपिञ्जरमध्यवसत्, शिवमाला स्वर्णपिञ्जरं मस्तके निधाय चलति स्म । पृष्ठत एकः पुमान् तच्छिरसि दिव्यच्छत्रेण छायामकरोत्, उभयपार्वतश्च द्वौ जनौ चामरे वीज्यमानावास्ताम् । कुक्कुटराजस्याऽमुं समारोहं निर्वर्ण्य निरीक्षकाश्चकिताः सन्तस्तस्य भाग्यश्लाघां कुर्वन्ति स्म । यत्रैते क्रीडां दर्शयन्ति स्म तत्र पूर्वतश्चतुर्गुणो लाभो भवितुं लगः । तेनैषा नटमण्डली प्रीता सती सोत्साहेन चतुर्दिक्षु भ्रामं भ्रामं जनानां मनोरञ्जनाय स्वखेलनं दर्शयामास ।
|| १७२ ।।