________________
चन्द्रराजचरित्रम् - सप्तदशः परिच्छेदः वीरमत्याः कुक्कुटमुक्तिः यतःयदपसरति मेषः कारणं तत्पहर्तुं, मृगपतिरपि कोपात्सङ्कुचत्युत्पतिष्णुः । हृदयं निहितवैरा गूढमवप्रचाराः, किमपि विगणयन्तो बुद्धिमन्तः सहन्ते
॥७३॥ तेन मुदिता सा वीरमती प्रसन्नतया स्वावासं परावृत्याऽऽगता | इतो गतेषु सर्वजनेषु गुणावल्याश्चेतसि पुनर्तुःखाब्धिरुन्मर्यादो जातः । तन्नेत्राभ्यां गङ्गाकालिन्द्योर्धारा इव बाष्पासारा निर्गन्तुं लग्राः । यथा यथा तस्याः स्वपतेः स्मरणमागतं तथा तथा तद्दुःखमपि प्रवर्धमानमासीत् । सा दीर्घवासं ग्राहं ग्राहं तस्यामेव दिशायां दत्तदृष्टिरासीत्, यस्यां दिशि तत्प्रियपिअरं गृहीत्वा नटसमूहो गतोऽभवत् । तद्दिशातो मरुवेगस्तथाऽऽयातो येन सा ध्यातुं लग्ना-यदयमवश्यं मे पत्युः स्पर्श कृत्वात्राऽऽगतो भवेत्, अतः सा तत्स्पर्शनातीव मुमुदे | सा स्वप्राणप्रियमास्मृत्य वक्तुं प्रारब्धा- अये ! प्राणाः ! यूयं सम्प्रति प्राणेशमन्तरा कथं स्थास्यथ ? गमनं तु युष्माकं धर्ममेव विद्यते । यदा प्राणाधारो गतस्तदा युष्माकमप्यत्र स्थिति!चिता | यतःप्रस्थानं वलयैः कृतं प्रियसखैरौरजनं गतं, धृत्या न क्षणभासितं व्यवसितं चित्तेन गन्तुं पुरः । यातुं निश्चितचेतसि प्रियतमे सर्वैः समं प्रस्थितं, गन्तव्ये सति जीवन ! प्रियसुहृत्सार्थः किमुत्सृज्यते ?॥७४॥
|| १७० ॥