________________
चन्द्रराजचरित्रम् - सप्तदशः परिच्छेदः वीरमत्याः कुक्कुटमुक्तिः
एवं बहुविधोपदेशं दत्त्वा कुक्कुटराजं च प्रणम्य, सचिवः स्वस्थानमाययौ । इतो नटैरपि स्वोपकरणानि बद्ध्वा ततः प्रतस्थे| यदा ते वाद्यं वादयन्तो राजमार्गेण निःसर्तुं लग्नास्तदा गुणावल्यपि तान् स्वकुट्टिमतोऽवलोकयामास । तया दृष्टं यन्मत्प्राणनाथस्य पिञ्जरं शिवमाला स्वमस्तकोपरि वहति । स यावद् दृग्गोचरेऽवर्तत, तावद् गुणावली निर्निमेषेण तमवलोकयामास। अतिक्रान्तनेत्रपथे तस्मिन विटपाऽवरोधेन च तद्दर्शनाऽभावे गुणावली ततोऽधः समागता। तदानीं तस्याः परमार्थतः सैव दशाऽऽसीद्या मणौ हृते पन्नगस्य वा पयसो बहिष्कृतस्य मीनस्य भवति । सैतस्य दुःखस्याऽऽवेगमसहमानाऽवनौ मूर्छिताऽपतत् । तदीयामिमामवस्थामवलोक्य वयस्या धावन्त्यः समाययुः, शीतोपचारैश्च कथञ्चित्तां सज्जीचक्रुः । अनया घटनया परितो हाहाकारो जातश्चैतद्वृत्तं ज्ञात्वा तत्र सचिवोऽप्याययौ, तेन बहुधा तस्यै सान्त्वना दत्ता ।
यतः
विपदि रेषां सन्तः, समधिकतरमेव दधति सौजन्यम् । ग्रीष्मे भवन्ति तरयो, घनकोमलपल्लवच्छन्नाः ॥७२॥ ___अथ वीरमत्यपि तत्राऽऽयाता, परं तस्यास्तु सार्धतण्डुलस्य कृशरं पृथगेव पच्यते । गुणावल्याः शान्तिदानं तथा तद्दुःखकारणपृच्छा तु दूर एवाऽतिष्ठत्प्रत्युत विरुद्धमेव तयोक्तम्- वधु ! चन्द्रस्य गमनेनाऽद्य मे परमानन्दोऽभवत्सम्प्रत्यस्माकं स्नेहे कथमपि बाधा न पतिष्यति, ततोऽप्युत्तरोत्तरं वर्धिष्यत इति मे मनोधारणाऽस्ति । वीरमत्या अदो वचो गुणावल्यै परमाप्रियमलगत्पुनरपि स्वसमयं विचार्य तस्यास्तद्वचोऽनुमोदनं कर्त्तव्यमेवाऽभूत् ।
|| १६६ ॥