________________
चन्द्रराजचरित्रम् - सप्तदशः परिच्छेदः वीरमत्याः कुक्कुटमुक्तिः विस्मरिष्यते, आजीवनं भवतोऽधमर्णः स्थास्यामि । तस्या एवं मनोव्याकुलतां विलोक्य मन्त्रिमनसि बहुदुःखमभूत्तेन भणितम्राज्ञि ! तवैवंविधः खेदो न कर्तव्यस्तव वश्रवाः प्रकृतिरतिकुटिला वर्तते, अतस्तां कोपयितुमपि नोचितम् । यद्यपि सा वृद्धा जाता तथापि तत्कुटिलायाः कोऽपि विधासो नास्ति । अतःपरं सा चिरं जीविष्यत्येव नहि, अन्ते त्वस्य राज्यस्य स्वामी त्वत्पतिस्त्वं चैव भविष्यथः । ततोऽधुना धैर्येणैव स्वकार्यसाधनं त्वदर्थ लाभदायक विद्यते । सचिवस्यानेन परितोषवचनेन गुणावल्याश्चेतः स्तोकं शान्तिमाप । तया कुक्कुटस्य पश्चात्परावर्तनविचारस्त्यक्तः, परमन्यामन्यां काञ्चिद् वार्ता कथयित्वा तथा स्वप्रियार्थं सुखभक्षिकां मिष्टान्नादिकं च प्रदाय तया मन्त्री शिवमालापार्चे प्रेषितः। सचिवेन तत्रैत्य शिवमालामाकार्योक्तम्- इदं तु त्वं वेत्स्यस्येव यदयं कुक्कुटो यथार्थताम्रचूडो न विद्यते, परमयं सुधर्मनिरतोऽखिलराजशिरोमणिर्जगदुपकारकरणैकतरणी राजा चन्द्रोऽस्ति। अस्य विमात्रा मन्त्रबलेनाऽयं कृकवाकुर्विहितः, ततो युष्माभिरयं सम्यग् रक्षणीयः, अस्य शुश्रूषणे कथमपि त्रुटिर्न विधातव्या । कदाचित्परिभ्रमन्त्याऽत्राप्यागन्तव्यम्, तव पार्थे सुरक्षितं राजानं चन्द्रं निर्वाऽस्माकं प्रमोदो भविष्यति । चेदस्यां दिशि समायातुं न शक्नुयास्तदा पत्रेणाऽप्यस्य कुशलोदन्तः सूचयितव्यः, तवैतस्या उपकृतेः किञ्चित्प्रत्युपकारो यथावसरमस्माभिरवश्यमेव करिष्यते। यदुक्तम्प्रत्युपकुर्वन्बद्दपि, न भवति पूर्वोपकारिणां तुल्यः । एकोऽनुकरोति कृतं, निष्कारणमेव कुरुतेऽन्यः ॥१॥
।। १६८ ॥