________________
चन्द्रराजचरित्रम् - सप्तदशः परिच्छेदः वीरमत्याः कुक्कुटमुक्तिः
इमे भरता मम प्राणनाथं न जाने कुत्र नेष्यन्ति, पुनरहं तं कुत्र लप्स्ये । तेषां नटषट्पदानां तु स्थाने स्थाने नूनं मित्रं नवीनाश्च स्त्रियो मिलिष्यन्ति, परं मे तद्वियोगेन का गतिर्भविष्यति? यदि स मनुष्योऽभूत्वाऽपि कुक्कुटरूप एव मदासन्ने स्थास्यति, तथाऽपि ममात्मनि महान् सन्तोषो भविष्यति । यतःअमृतं शिशिरे वह्नि-रमृतं क्षीरभोजनम् । अमृतं राजसन्मान-ममृतं प्रियदर्शनम्
॥६९॥ अहं तं निरीक्ष्य निरीक्ष्य जीविता तु स्थास्यामि, अनया वीरमत्या तु ध्रुवं मे प्रागभवीयं शात्रवमस्ति यतो मनुष्यात्पक्षिरूपे कृतेऽपि तत्कोपो नोपशमितः । जगति सर्वान्मृत्युहरति परं न जाने स एनां कथं न हरतीयं कियत्कालं मे दुःखदानाय स्थास्यतीति न वेद्मि ? | मत्प्राणेशस्य यशःश्रवणेनेयं कथं दुःखीयते तन्नाऽवगच्छामि ? मम धश्रूकृते स मे प्राणप्रियः कण्टकतुल्यो भवतु, परं मत्कृते तु स एव जीवितसर्वस्वो विद्यतेतमाम् । तेन विना मे जीवनं भाररूपं निराधारं कथं स्थास्यतीति मे तर्कविचारणा चिन्ताब्धिपारं न गच्छति । यतःनदीतीरेषु ये वृक्षा या च नारी निराश्रया । मविहीनाश्च राजानो, न भवन्ति चिरायुषः ॥७०॥
अतो हे धीसख ! यथा भवेत्तथा भवान् तं कुक्कुटराजं परावर्त्याऽऽनीय मे ददातु, भवदीयोऽयमुपकारो मया कदापि न
|| १६७ ॥