________________
चन्द्रराजचरित्रम् - सप्तदशः परिच्छेदः वीरमत्याः कुक्कुटमुक्तिः लाया हृदि प्रमोदभरोऽभूत्तया पूर्वमेव विदितं यदयं कुक्कुटोऽन्यः कश्चिन्न, अपि तु राजा चन्द्र एव विद्यते, अतस्तया परमादरेणैकस्यां महार्घशय्यायां सपञ्जरस्ताम्रचूडः स्थापितः । ततस्तया तज्जनकेन च करौ संयोज्योचाते- स्वामिन् ! अद्यावधि निर्नाथा वयं भवन्तं प्राप्य सनाथाः संजाताः, अद्यप्रभृति वयं भवन्तं राजानं मत्वा भवत्सेवां करिष्यामः । प्राक्तनश्रेयसाऽस्माकं भवत्प्राप्तिर्जाता, अतःपरं वयं भवतोऽभिवादनमृते केभ्योऽपि नृत्यखेलनादिकं न दर्शयिष्यामः | भवानत्र सुखेन तिष्ठतु, स्वसेवार्थं चाऽस्मानादिशतु वयं भवत एव दीनसेवकाः स्मः । एवमुक्त्वा तैस्तदग्रे विविधां सुखभक्षिकां विमुच्य तदक्षणाय तस्याऽनुरोधः कृतः । कुक्कुटराजोऽपि तत्कथनेन तां सुखभक्षिकां भक्षयितुं लग्नः, परं तदैव गुणावल्याः स्मरणेन समागतेन तस्य गलाऽवरोधेन सा सुखभक्षिका कण्ठादधो नोत्ततार | तदवलोक्य शिवमालयोक्तम्- हे कुक्कुटराज! भवता कापि चिन्ता न कार्या, सानन्दं सुखभक्षिकां मिष्टान्नञ्च भुक्तां , कालान्तरेण समस्तं सम्यगेव भविष्यति । तन्निशम्य स किञ्चिच्छान्तोऽभूत्ततः स तत्पार्चे स्थितः सन् स्वकालं गमयाञ्चकार।
इतः समाविसर्जनानन्तरं मन्त्री गुणावलीसन्निधावागतः, सैतावत्कालमुपविष्टा क्रन्दन्त्यासीत्तया सचिवं पश्यन्त्यैवोचेसचिव ! वीरमतीं राज्ञी नटं वा प्रबोध्य केनचिदुपायेन मे कुक्कुटं पश्चाल्लात्वा देहि, तद्वियोगो मेऽसह्यो बोभूयते । यतःवरमसौ दिवसो न पुनर्निशा, ननु निशैय वरं न पुनर्दिनम् । उभयमप्यथवा व्रजतु क्षयं, प्रियतमेन न यत्र समागमः ॥६८॥
|| १६६ ।।