________________
चन्द्रराजचरित्रम् सप्तदशः परिच्छेदः
वीरमत्याः कुक्कुटमुक्तिः
लिखित्वा सा प्रतिबोधिता - प्रिये ! त्वया मे चिन्ता न कार्या । जीवति मयि आवयोः कदाचिदपि संगमोऽवश्यं भावी, दूरस्थेऽपि मयि तवाहं समीपस्थ एवेति त्वया ज्ञातव्यः ।
यतः
दूरस्थोऽपि न दूरस्थो यो वै मनसि वर्त्तते । हृदयादथ निष्क्रान्तः, समीपस्थोऽपि दूरगः
-
Fl
यावत्ते मानसे मदर्थं स्थानं वर्त्स्यति, तावत्त्वां न विस्मरिष्यामि, देशे विदेशे वा स्थितेन केनाऽपि स्वकीया प्रियतमा न विस्मर्यते ।
यतः
-
क्य सरसि वनखण्डं पङ्कजानां क्य सूर्यः, क्य च कुमुदवनानां कौमुदीबन्धुरेषः ? । चिरपरिचयबद्धा प्रायशः सज्जनानां, न हि विचलति मैत्री दूरतोऽपि स्थितानाम्
॥६७॥
अस्ति मे विश्वासो यदयं नटो मां कुक्कुटतः पुनर्मनुष्यं करिष्यति, अतोऽहमनेन साकं व्रजन्नस्मि । यदि मदीयेयमाशा सफलीभूता स्यात्तदा सत्वरमेव विदेशादागत्य त्वां मिलिष्यामि । राज्ञा चन्द्रेण भूमौ लिखितामिमां वार्तां पठित्वा गुणावल्याश्चित्तं किञ्चिच्छान्तं जातम् । तया पुनः कुक्कुटं हृदयेनाऽऽश्लिष्य मन्त्रिणो हस्ते दत्तः । तदनन्तरं मन्त्रिणाऽऽनीतः कुक्कुटो वीरमत्या तदानीमेव शिवकुमारायार्पितः । सोऽपि तं प्राप्य हृष्टः सन् वीरमतीं प्रणम्य स्ववासस्थाने समागतः । कुक्कुटमवाप्य शिवमा
।। १६५ ।।