________________
चन्द्रराजचरित्रम् - सप्तदशः परिच्छेदः वीरमत्याः कुक्कुटमुक्तिः रूपेण परिणता भवति । नाथ ! पुनरावयोर्मिलनं कदा भविष्यति तद्दिनं धन्यमेव मन्ये । यतःनित्यं ब्रह्म यथा स्मरन्ति मुनयो हंसा यथा मानसं, यद्वच्च स्फुटसल्लकीयनयुतां ध्यायन्ति रेयां गजाः । तद्वदर्शनलालसाः प्रतिदिनं युष्मान्स्मरामो वयं, धन्यः कोऽपि स वासरोऽत्र भविता यत्राऽऽवयोः संगमः ॥६५॥
स्वामिन् ! मनाक् स्वीयमिमामभागिनी पत्नीमभिपश्यतु, ममान्तःकरणं भवद्विरहानलेन भस्मीभवति । मुसलधारासम्पातेऽप्यस्य ज्वलनस्य शान्तिकरी शक्तिर्न विद्यते । प्राणाधार ! दैवेनातिक्रूरेणाऽऽवयोरुपरि महान् दुःखाद्रिः पातितः परं तस्यामप्यवस्थायामहं भवदर्शनं कृत्वा स्वां धन्यां ज्ञातवत्यासम् । परं दैवेनाऽधुनेयदपि सुखं द्रष्टुं नाऽसह्यत । यदि हृदयं विदार्य दर्शयितव्यं भवेत्तदाऽहं भवन्तं स्वदुःखं दर्शयेयम् । अरावप्येतदुःखं न पतेदिति मे सर्वदेच्छा विद्यते । नाथ ! भवदीया वार्ता सदैव मे स्मृतिपथमागमिष्यति भवता शीघ्रमेव कृपया परावर्तितव्यं भवानेव मम जीवनमस्ति । ममेमे साश्रुनेत्रे सततं भावत्कं मार्ग पश्यन्ती स्थास्यतः । भवन्तं नटः प्रतिगृहं भ्रामयिष्यत्यस्य वृत्तस्य मे महत्कष्टं वरीवृत्यते । परमत्र रक्षणे भवत्प्राणसम्बन्धि महद भयमासीत्, अतो हे प्राणाधार ! विवशीभूयाऽद्याऽहं भवन्तं स्वतः पृथक् कुर्वत्यस्मि | तस्या एतद्वचो निशम्य राज्ञश्चन्द्रस्य चक्षुषी साऽश्रुणी संजज्ञाते । तस्मिन् मानववद्वक्तुं वचनशक्तिर्नाऽऽसीत्, कुक्कुटवचश्च गुणावली समवगन्तुमशक्तेति तेन पादनखेनाऽवनौ
|| १६४ ।।