________________
चन्द्रराजचरित्रम् - प्रथमः परिच्छेदः
श्रीचन्द्रकुमारस्य जन्म हस्यमिति निश्चयन कन्यायाः करुणस्वरो मर्मस्पर्शी वर्त्तते । साऽऽपदि पतिता स्यान्नकिम् ? कोऽपि तस्यामत्याचरेन्न वा किम्? समयातिक्रमस्यावसरो नासीदिति, यदिशातः स स्वर आगत-स्तस्यामेव दिशि स शीघ्रतया चचाल | खड्गहस्तश्च स क्षणमात्रेणैव तं देशं प्राप ।
तत्रोपविष्ट: कश्चिद्योगी राज्ञा दृष्टो यस्य नेत्रे पिहिते स्तः। हस्ते पुष्पस्रक् चाग्रे पुष्पधूपादिपूजासामग्री निहितास्ति । समीपेऽग्निकुण्डमस्ति यस्मादगृिज्वाला निःसरति । पार्थे खड्गोऽपरस्मिन् भागे काचित्कन्योपविष्टास्ति, तस्या हस्तौ पादौ च दृढबन्धनेन बद्धौ स्तः । सा च तस्यामेवावस्थायामुपविष्टा सती करुणाक्रन्दनं कुर्वत्यस्ति । एवंविधां सज्जितसामग्री पश्यत एव राज्ञः सर्वं वृत्तं स्वत एव विदितमभूत् । स च कन्यामभिचचाल तमागच्छन्तमेव सा कन्याऽऽहूयाऽवादीत्- हे आभानरेश ! शीघ्रं मे प्राणान् रक्ष, अयं नराधमो योगी मां बलिदानं कर्तुमिच्छति | एकस्या अपरिचितायाः कन्याया मुखात्स्वनाम श्रुत्वा राज्ञ आश्चर्य समजायत । स च शान्ततया स्थातव्यमिति कन्यायै संकेतं कृत्वा, योगिनः समीपे निहितं खड्गं तूष्णींभावनोत्थापितवान् । पश्चात्तारस्वरेण तं योगिनं प्रत्युवाच-अरे निर्दय ! निर्लज्ज ! पापिष्ठ ! दुरात्मन् ! अधुना बकध्यानेन कार्यं न चलिष्यति । उत्तिष्ठ मुञ्चैनां बालिकां, मया सह युद्धं कुरु, मम समक्षेऽस्या बलिदानं तु भवितुमेव कथमर्हति ? परं चाहं त्वां जीवन्तं न त्यक्ष्यामि । यतः -
|| ६ ||