________________
चन्द्रराजचरित्रम् - प्रथमः परिच्छेदः श्रीचन्द्रकुमारस्य जन्म राजा वृक्षाधो गच्छन्नेव शाखां गृहीतवान, इतोऽदृढमुखरश्मिरोऽपि स्वयमेव तत्रैव तस्थौ । एतेन साश्चर्यो राजा तस्य वक्रगतिशिक्षामवेदीत् ।
__ मार्गपरिश्रमेण क्लिन्नदेहो नृपतिस्तमचं तस्मिन्नेव वृक्षे बद्धवा तडागममिययौ । निर्मलशीतलजलेनाऽऽपूर्णः परितः स्फटिकबद्धघट्टस्तडाग आसीत् । पुनरसौ यथा ग्रीष्मार्तान् पथिकानाहूय शीतलच्छायाप्रदानेन स्वागतं प्रकुर्वन्निवासीदिति । राजा हस्तौ पादौ मुखं च प्रक्षाल्य किञ्चित्कालं विश्रामं कृत्वा जलं च पीत्वा अमेऽपनीते सति तडागमभितो भ्रामं भ्रामं तस्य मनोहारिणी शोभां द्रष्टुं लगः । एवं परिभ्रमतो राज्ञो दृष्टिलॊहजालिकोपरि पतिता | तस्या अधस्तले कतिचिन्निश्रेणयोऽपि दृष्टिपथमागताः। राज्ञा कौतुकाज्जालमपनीय निर्भीकतया खड्गं हस्ते कृत्वा निःश्रेणिमार्गेण तस्मिन् गुप्तस्थाने प्रविवेश | निःश्रेणिरचना च नातिदूरं यावदासीदिति किञ्चिदेव दूरं गते राजनि पातालाभ्यन्तरे विशालमेकं वनं राज्ञो नेत्रगोचरमभूत् । धैर्यधर्मपुण्यपुरुषार्थाश्चैते चत्वार एव तस्य सहचराः सद्रक्षका आसन् । यतो नीतिशास्त्रेप्युक्तम् - उद्यमं साहसं धैर्य, बलं बुद्धिः पराक्रमः । षडेते यस्य विद्यन्ते, तस्माद्देयोऽपि शकते
॥२॥ ___अतो निरन्तरमने गमनान्न विरराम | वने कियद्दूरे गते रुदत्याः कस्याश्चित्कन्यायाः स्वरस्तस्य कर्णे निपतितः । अनेन साश्चर्यो राजा चकितः सन् मनसि विचारयामास, अस्मिन्पाताले वनमेतत, वने चैतत्कन्याया रोदनं कथम् ? अस्त्यस्मिन् किञ्चिद्र
||५||