________________
चन्द्रराजचरित्रम्
प्रथमः परिच्छेदः
श्रीचन्द्रकुमारस्य जन्म तत्रान्विष्यमाणा अपि नामिलन् । व्यापारिणो धनवन्तः स्त्रियश्चातिरूपवत्य आसन्। सहैव जिनमन्दिरैः सा नगरी सुशोभिताऽऽसीत् । अस्यां नीतिज्ञो यत्नेन प्रजापालको वीरसेनो नाम राजा राज्यं चकार ।
यतः
दुष्टस्य दण्डः सुजनस्य पूजा, न्यायेन कोशस्य च संप्रवृद्धिः । अपक्षपातो रिपुराष्ट्ररक्षा, पञ्चैव यज्ञाः कथिता नृपाणाम् ॥१॥
-
तस्य वीरमती नाम्नी पट्टराज्ञी बभूव । एकस्मिन् दिवसे तस्यां नगर्यां घोटकव्यापारिणः समायाताः, तेषां पार्थेऽनेकजातीया उत्तमोत्तमघोटका आसन् । राज्ञा समुचितमूल्यदानेन सर्वे घोटकाः क्रीताः । तेष्वेकोऽतीव सुन्दरः शिक्षितवक्रगतिः परमेतद्वृत्तं राज्ञोऽविदितमासीत् । एकदा राजा सैन्यैः सह मृगयार्थं तमश्वमारुह्य वनं जगाम । तत्रानेकविधानां वन्यपशूनामाखेटं कृत्वा दृष्टिपथमागतमेकं मृगमन्वधावत् । जिघांसुं तं ज्ञात्वा मृगोऽप्युच्छलन्नदुद्रुवत्। कृतानेकोपायोऽपि राजा तमात्मसात् कर्तुं न शशाक । प्रान्ते प्राप्तश्रमो राजा धावन्तमचं रोद्धुं मनश्चक्रे तथा कृतेऽपि मुखरज्जुसंयमनेऽवो द्विगुणजवेन धावितुं लग्नो वस्तुतोऽस्यैतादृशी शिक्षैव विपरीताऽऽसीत् । अतो रोद्धुं चेष्टमानेऽपि राजनि सोऽधिकतरं धावितुमलगत् । राज्ञः सैनिकाः सहचराश्च पश्चादेव स्थितास्तदाश्वस्तु धावन्नेव गतवान् स कुत्र कदा वा स्थास्यतीति निश्चयोऽपि नासीत् । इत्थं चिन्ताविष्टस्य राज्ञो नातिदूरे सुशोभितस्तडागस्तस्य समीपस्थ एको वटवृक्षो नेत्रगोचरोऽभूत् । अस्य वृक्षस्याधोभागे गते सति वृक्षशाखामवलम्ब्य घोटकं त्यक्ष्यामीति राजा मनसि निश्चिकाय । दैवयोगादयोऽपि तद्वृक्षाधस्त एव निःसृतवान् ।
।। ४ ।।