________________
चन्द्रराजचरित्रम्
-
प्रथमः परिच्छेदः
श्रीचन्द्रकुमारस्य जन्म
अथ श्रीचन्द्राराजसंस्कृतचरित्रस्य प्रथमे परिच्छेदे श्रीचन्द्रकुमारस्य जन्म
अस्ति किलास्मिंस्त्रिलोके चतुर्दशराजलोकानां मध्ये तिर्यग्लोकः, यस्य विस्तार एकस्य राजलोकस्याऽस्ति । अस्योर्ध्वाधोविस्तारोऽष्टादशशतयोजनप्रमाणोऽस्ति । अस्य मध्ये जम्बूनामद्वीपो वर्तते, अयं स्थालीव वर्तुलाकारो लक्षयोजनप्रमाणश्चकास्ति । अस्य चतुर्दिक्षु अगणितद्वीपसमुद्राः सन्ति ते च वलयाकृतयः । जम्बूद्वीपस्योत्तरे भागे जम्बूवृक्षैः सुशोभितं कुरुक्षेत्रमस्ति, अतोऽस्य जम्बूद्वीपमिति नाम प्रसिद्धम् । जम्बूद्वीपे सप्तक्षेत्राणि मध्ये मेरुरन्ये च षड्वर्षधरपर्वताः सन्ति । अस्य दक्षिणभागेऽष्टम्याश्चन्द्राकृति भरतक्षेत्रमस्ति, तच्च सिद्धाचलादिमहातीर्थानामाश्रयत्वात्सर्वक्षेत्रेषु श्रेष्ठतमं गण्यते । वैताढ्यपर्वतेन गङ्गासिन्धुनदीभ्यां च षड्भागेषु विभक्तमस्ति, उक्तयोर्नद्योश्चतुर्दशसहस्रमिता नद्यः पतन्ति । भरतक्षेत्रे द्वात्रिंशत्सहस्र प्रमिता देशा विराजन्ते येषु सार्धपञ्चविंशतिदेशा आर्याश्चान्ये सर्वेऽनार्याः सन्ति । भरतक्षेत्रस्य षट्खण्डेषु दाक्षिणात्यमध्यखण्डस्य प्राच्यप्रदेशो रमणीयतरोऽस्ति, सूर्याचन्द्रमसौ तत्रैवोदयेते । चन्द्रस्य तद्देशसंचरणादेव षोडशकलाप्राप्तिर्भवति । जगत्पावनी गङ्गापि तत्रैव भरते प्रवहति, अस्य महामहिमदेशस्य मध्यभागे रमणीयतराऽऽभापुरीनामनगरी बभूव । यस्याः सौन्दर्यं विलोक्य लङ्काऽलकादिनगर्योऽपि लज्जां प्राप्तवत्यः । अस्यां चतुरशीतिसङ्ख्याकं चतुष्पथं चतुर्भागेषु महोन्नतः प्राकारो मध्ये महेभ्यानां निवासश्चासीत् । तत्रत्याः सर्वे दानवीराः कृपणास्तु
I
I
|| 3 ||