________________
चन्द्रराजचरित्रम् षोडशः परिच्छेदः
शिवमालायै चन्द्रनृपादिदानम्
तदा तन्निशम्य गुणावल्योक्तम् - मन्त्रिन् ! तव कथनमदः सत्यं, परमहमेनं कथं दातुं शक्नोमि ? वीरमती त्वनेन साकं परं शात्रवं भजते, अतः साऽस्य निरन्तरमनिष्टचिन्तनमेव करोति, परं मत्कृते त्वयमेव सर्वस्वं विद्यतेऽहं त्वमुमेव रक्षित्वा जीवामि । अयमेव मम जीवनं धनं प्राणाधारश्च वरीवर्तीत्येनं विना सानन्दं निजसमयं गमयितुं कथमहं शक्ता भवितुमर्हामि ? |
—
यतः
पङ्गुमन्धं च कुब्जं च, कुष्ठाङ्गं व्याधिपीडितम् । आपत्सु च गतं नाथं, न त्यजेत्सा महासती
દ્દા
|
तस्माद् भवानिममदत्त्वाऽन्यद् वस्तु याचनार्थं नटं बोधयतु । पुनरस्माकमेतदपि विचारणीयं यन्महाराजोऽस्माभिरेकशः, कृकवाकुर्विहितः । साम्प्रतं वयं भरताय दत्त्वा प्रतिगृहं तेन किं नर्तनं कारयिष्यामः ? अयं यावन्मे समक्षे तिष्ठति तावन्मे मनः सानन्दं कालं गमयति, अतोऽधुनैनं नेत्रदूरवर्तिनं न करिष्यामि । अस्मिन्नापद्यपि समागतायां वीरमत्यै किम ? सा त्वधिकं हसिष्यति, परं मे हृदयं विदीर्णं भविष्यति । अतो दयां विधाय मम जीवनाऽवलम्बनमिमं मा हरतु । गुणावल्याः सगद्गदमदो वचो निशम्य मन्त्रिणोऽपि चक्षुरम्बुपूर्णमभूत् परं वीरमत्या आदेशसमक्षे सोऽप्यशक्त आसीत् । तेन पुनरपि प्रतिबोधिताया गुणावल्या अपि चित्तेऽदो वचनं प्रियमलगत्, यदयं ताम्रचूडोऽत्रत्यापेक्षया नट्याः पार्श्वेऽधिकः सुरक्षितः स्थास्यति, अतोऽमात्यकथनं स्वीकृत्य मन्त्रिणे कुक्कुटं दातुं प्रावर्तत ।
।। १६२ ।।