________________
चन्द्रराजचरित्रम् - षोडशः परिच्छेदः शिवमालायै चन्द्रनृपादिदानम् कृपातो मे द्रव्यादेरभावो नाऽस्ति, तथापि यदि मम धनस्यावश्यकताऽभविष्यत्तदा राजान्तरादयाचिष्ये, परं भवत्या त्वयमेव कृकवाकुर्दीयताम् । तदाकर्ण्य वीरमत्योक्तम्-शिवकुमार ! किमिदं त्वं याचसे, त्वया तु हस्त्यश्वधनधान्यवस्त्राभूषणानि याचितव्यानि, येषु दत्तेषु ममाऽपि यशोवृद्धिः स्यात् । एकस्य कुक्कुटस्य प्रदानेन मे कीर्तिर्भवितुं नाऽर्हति, अद्य यावन्मया कस्याऽपि कुक्कुटस्य पारितोषिके प्रदानं न दृष्टं न च श्रुतम् । पुनरयं तु वध्वा मनोरञ्जनाय मया पालितोऽस्ति, ततो दत्तेऽस्मिन् तस्या मनः खिन्नं भविष्यति, अतस्त्वमन्यद्वस्तु याचस्व, यत्ते सहर्षं दातव्यं भवेत् यस्मिंश्च वितीर्णे ममाऽपकीर्तिरपि न भवेत् । ततः शिवकुमारेणोक्तं-मह्यं कुक्कुटार्पणेन जात्वपि श्रीमत्या अयशो न भवितुमर्हति, यतो मया मार्गितमेव भवत्या दीयते । अनेनायं भवत्याः प्रेमाऽऽस्पदमिति ज्ञायते, ततोऽस्य प्रदानं श्रीमत्यै न रोचते, अत एवेत्थं भवत्या वाक्प्रपञ्चः क्रियते । परं यदि श्रीमत्येकं कुक्कुटमपि दातुं नाऽर्हति, तदाऽन्यद् बहुमूल्यं वस्तु मार्यमाणमपि कथं दातुं शक्नुयात् ? शिवकुमारोदितामिमां वाचमाकर्ण्य तया बहुबोधितोऽपि स यदा स्वाग्रहं नाऽमुचत्तदा तत्प्रार्थनामवधार्य कुक्कुटमानेतुं धीसखो गुणावलीपार्थे प्रेषितः । तेन तत्र गत्वा गुणावल्यै सर्वोदन्तो निगदितः, सहैव सा बोधिताऽपि यदस्य कुक्कुटस्याऽत्र रक्षणाऽपेक्षाया नटसात्करणमेव वरमस्ति, यतोऽत्र वीरमती सदैव तत्प्राणापहाराय सज्जिता तिष्ठति । तस्मै दत्तेऽस्य प्राणरक्षा सम्यग् भविष्यति चाऽमुं स स्वप्राणेभ्योऽप्यधिकं रक्षिष्यति, अतस्तदानाऽनङ्गीकरणं नैव वरमिति मे सम्मतिः ।
|| १६१ ॥