________________
चन्द्रराजचरित्रम् - षोडशः परिच्छेदः
शिवमालायै चन्द्रनृपादिदानम् शिवमाले ! स्वकलायामतिनिपुणा त्वं सहैव पक्षिभाषामप्यवगच्छसि, अतोऽहं त्वां स्वगुप्तवृत्तान्तं कथयामि - क्रीडनानन्तरं यदा त्वं वंशादधोऽवतरिष्यसि तदा वीरमती प्रसन्नीभूय त्वां पुरस्कारमार्गणार्थं कथयिष्यति, तदानीमन्यत्किञ्चिदयाचित्वा त्वं मामेव याचेथाः । द्रव्यादेर्लोभे न पतेरिति साञ्जलिरहं त्वां प्रार्थयामि, यदियन्मे कथनमवश्यं त्वया मान्यं, तवानेन कार्येण मम प्राणरक्षा भविष्यतीत्यत्र कथमपि विस्मृतिर्न विधातव्या । उक्तमपि
-
परोपकाराय फलन्ति वृक्षाः, परोपकाराय वहन्ति नद्यः । परोपकाराय दुहन्ति गायः, परोपकारार्थमिदं शरीरम् ॥६२॥
|
एतदर्थमहं ते यावज्जीवमुपकृतिं मंस्ये, धनं त्वावां यावदेष्यावस्तावदर्जिष्यावः । तव पार्श्वगतेऽहं ते नैजमखिलं वृत्तान्तं वक्ष्यामि । कृकवाकोरेतत्समस्तं कथनमनायासेन शिवमालाऽबोधीति खेलनान्ते तया स्वपितरं प्रति रहसि निखिलं कुक्कुटोक्तमूचे । सहैव तयाऽनुरोधः कृतो यद् वीरमत्या अयं ताम्रचूडोऽवश्यं केनाऽपि प्रकारेण याचनीयः । शिवकुमारेण स्वदुहितुरियमभ्यर्थना सहर्षं स्वीकृता, वीरमत्याश्च जयारावे कृते यदा तया पुरस्कारमार्गणायोक्तं, तदा स तमेव ताम्रचूडं मार्गयन् वक्तुं लग्नःराजमातः ! यदि भवती प्रसन्नाऽस्ति, तर्हि मेऽस्य कुक्कुटस्य प्रदानाय दयालुर्भव, अन्येन वस्तुना मे किमपि प्रयोजनं नाऽस्ति । यतो मे तनया साम्प्रतमस्यैव गतिं शिक्षते, तत उत्तमं कुक्कुटं विना तस्या मनोरथपूर्तिर्न भवतीति कृपयाऽयं चरणायुधो मेऽवश्यं दीयताम् । भवत्या स्वकृतेऽन्यं क्रीत्वा पालनीयः, मातः ! तव
।। १६० ।।