________________
चन्द्रराजचरित्रम् - षोडशः परिच्छेदः शिवमालायै चन्द्रनृपादिदानम् द्रागेव खड्गं करे कृत्वोपगुणावलि गत्वा चरणायुधं सम्बोध्याऽचकथत्- रे दुष्ट ! इदानीमपि ते त्रपा नाऽऽयाति ? त्वया मत्तः पूर्वं दानं कथं दत्तम् ? कुक्कुटो भूत्वाऽपि त्वं नै धाष्ट्यं न जहासि ? अस्तु, लाहि सम्प्रति तत्फलं स्वादयामि । अधुनाऽहं त्वां कथमपि जीवितं नैव त्यक्ष्यामीत्युक्त्वा तया कुक्कुटरूपं चन्द्रं द्विखण्डं कर्तुमसिरुत्थापितः, परं तावन्मध्ये पतित्वा गुणावल्या झटित्येव तस्याः करो गृहीतः, कृताञ्जलिञ्चोचे- मातः ! इत्थं रोष मा कुरुष्व, अस्य दानादिप्रदानप्रज्ञा कुतो विद्येत ? खगोऽमूं वार्ता किं जानीयात् ? जलं पिबति पिबति कंस्यधः पतिता, नटेन चोत्थापिता, तस्मादत्राऽस्य कोऽपराधोऽस्ति ? पक्षिषु तु विवेकबुद्धेरभाव एव भवति, अतः पक्षिषु मन्युकरणमसाम्प्रतम् । यतःनाडकारणरुषां संख्या, संख्याताः कारणक्रुधः । कारणेऽपि न क्रुध्यन्ति, ये ते जगति पञ्चषाः ॥६१॥
अयं तु कथञ्चित्स्वोदरं पिपत्यैतदेव बहु मन्तव्यम् । इत्थं गुणावलीवीरमत्योः परस्परं वार्तालापं निशम्य तत्र बहवो जनाः समुपस्थिताः, तैर्मध्ये पतित्वा च कथञ्चिद्राज्ञश्चन्द्रस्य जीवितं रक्षितम् । विवादकरणेन वीरमत्याः स्तोककोपोपशमोऽभूत, सा च राजपर्षदि समेत्य सिंहासनमधितस्थौ । नटानामपि तदागमेन प्रमोदोऽजनि, ते च तां प्रसादयितुं पुनः स्वक्रीडनमारेभिरे । शिवमालाऽपि वंशे चटित्वा पिञ्जरोपरि दृष्टिं ददती स्वक्रीडां प्रदर्शयितुं लगा | नटी शिवमाला खगभाषां जानातीति वार्ता चन्द्रस्य विदिताऽऽसीत्, अतस्तेन कुक्कुटालापेन तां प्रत्युक्तम्
|| १५६ ।।