________________
चन्द्रराजचरित्रम् - षोडशः परिच्छेदः
शिवमालायै चन्द्रनृपादिदानम् सा तं शोधयितुं विविधां युक्तिं विचिन्तयितुं लग्ना । इत्थं प्रभाते जाते सुमतिहीना सा राजसभामागत्य स्रागेव शिवकुमारं नटमाकार्य पुनर्नाट्यं दर्शयितुमाज्ञां ददौ । तेनानन्दाब्धौ निमग्नः सोऽप्यन्य नटानाहूय सुसज्जयित्वा नानाविधं सक्रीडं भरतादिनाटकं विधातुमादिदेश तेऽपि तथैव चक्रुः । तदा गुणावल्यपि क्रोडे कुक्कुटपिअरं धृत्वा गवाक्षेण सम्यग् नाट्यं पश्यन्त्यासीत् । समाप्ते नाट्ये पूर्ववत्स नटो राज्ञश्चन्द्रस्य श्लोकं गायं गायं वीरमत्याः पार्श्वे पारितोषिकं मार्गयितुं लग्नः परं तया तु तन्नामश्रवणेनैव दग्धीभूतया न तु नटस्य श्लाघा कृता, न च तस्मै पारितोषिकमपि दत्तम् । अदत्ते तया पारितोषिकेऽन्येऽपि दर्शकाः प्रदानसमर्था न बभूवुः । सर्वे मनस्येवं विचारयन्तस्तदाऽऽसन्-यद् वीरमत्यद्यैवं विपरीतं कथं करोति ? परं कोऽपि वृत्तान्तस्तेषां ज्ञानगोचरे नाऽऽगतः । शिवकुमारेण परित आशाभृद्दृष्टिः पातिता, किन्तु चन्द्रं विना तस्य सकलाऽपि परिषद्विना लवणं भोजनमिव करीन्द्रं विना सैन्यमिव, पत्रं विना लतेव निःशोभा प्रतीताभूत् । इतः पिञ्जरान्तःस्थो राजा चन्द्रो नटस्येमामवस्थां विलोकयन्नासीत्, नटश्चाऽसकृत्तस्य नाम ग्राहं ग्राहं जयशब्दोच्चारणमकरोत् । अतोऽस्थिरमनसा चन्द्रेण ह्यस्तनवदद्यापि रत्नजटितैका कंसी पिञ्जराभ्यन्तरतो बहिर्निःसार्य पातिता । लक्षमूल्यमिता सा कच्चोलिका शिवकुमारेणोर्ध्वादूर्ध्वमेव लात्वा राज्ञश्चन्द्रस्य बहुतरं यशो गीतम् । एतदवलोकमानैरन्यैर्दर्शकैरपि मङ्क्षु रूप्यकवस्त्राभूषणानां वृष्टिरारब्धा, तदा शिवकुमारः स्वपरिश्रमस्य समुचितं विश्राणनं प्राप्य धन्यंमन्यो जातः । परमेतदसहमाना वीरमती चन्द्रस्य धृष्टतार्थं क्रोधमनवरुध्य
|
|| १५८ ।।