________________
चन्द्रराजचरित्रम् - षोडशः परिच्छेदः शिवमालायै चन्द्रनृपादिदानम् भवेत्तदा साधु स्यात् । परं तस्य महद् भाग्यं विज्ञायते, येन मया नो दृष्टः । एवं तत्कथनसमये राज्ञश्चन्द्रस्य पञ्जरं वीरमतीपार्थे एव धृतमासीत्परमेतावत्कालं यावदनेन चरणायुधेनैव प्रथम पारितोषिकं दत्तमिति तस्या विदितं नाभूत् । यदि कथञ्चिदपि विदितं भवेत्तदाऽद्य कुक्कुटचन्द्रं जीवन्तं न त्यजेत् । एवं तामतीव क्रुद्धां विलोक्य शान्तिमिच्छुना मन्त्रिणोक्तम्- मातः ! भवत्याः क्रोधकारणं किमपि नाऽस्ति, यतः सर्वतः प्रथमं पारितोषिकं भवदनुगैर्दददिर्भवत्या एव यशो वर्द्धितम् । यो वीरो भवति, स युद्धक्षेत्रे राज्ञः समक्ष एव स्वशौर्य दर्शयति तथैव दातारोऽपि भवन्ति ते स्वामियशःकीर्तनं श्रुत्वा तदानीं किञ्चिददत्त्वा नैव तिष्ठन्ति । यैर्नटेभ्योऽद्य दानं दत्तं ते भवत्पुत्रा एव सन्ति, न तु भवत्याः परिपन्थिनः । मातुः पार्थे तेषामेतत्कार्यं सर्वथा योग्यमेव गणनीयम् । यतःमाता मित्रं पिता चेति, स्वभावात् त्रितयं हितम् । कार्यकारणतश्चाऽन्ये, भवन्ति हितबुद्धयः ॥५९॥
इत्थं तेन सा भृशं प्रतिबोधिता, परं तत्प्रतिबोधस्य किमपि फलं न जातमतस्तस्या रोषो वर्धमान एवाऽतिष्ठत् । यतःअपूर्वः कोऽपि कोपाग्निः, सज्जनस्य खलस्य च । एकस्य शाम्यति स्नेहा-द्वर्द्धतेऽन्यस्य वारितः ॥६०॥
तदनन्तरं समां विसृज्य राजमन्दिरं गतायाः सुखशय्याश्रितायास्तस्या रुषा निद्रालेशोऽपि नाऽऽयातः । सा तु तदेव शोचन्त्यासीत्, यन्मत्तः पूर्वं दानार्पणस्य साहसं केन कृतम् ?
।। १५७ ।।