________________
चन्द्रराजचरित्रम् - षोडशः परिच्छेदः शिवमालायै चन्द्रनृपादिदानम् विलसति मदप्रवाहे, यहन्ति मालिन्यमानने करिणः । दानप्रवृत्तिसमये, निर्मलमुखवृत्तयो विरलाः । ॥५॥
परमेतेन समस्तदेशेषु बहुलमयशः प्रसरिष्यति, एतेभ्यः किञ्चिद्दत्ते सर्वत्र श्लाघिष्यन्ते, चादत्ते पदे पदे निन्दिष्यन्ति, तस्मादेभ्योऽवश्यमेव किञ्चिद्वितरणीयमिति विचार्य तेन चरणायुधेन पिञ्जरस्था रत्नजटिता स्वर्णकंसी चञ्च्वाऽधः पातिता । उक्तञ्चया थोऽपि किलोत्ससर्ज मथितो रत्नानि रत्नाकरो, मन्थानेन विलोडितं वितरति स्नेहं दधि स्वादपि । भद्रोऽपि द्विरदश्च मौक्तिकमणीन् कुम्भस्थलादाहतो, दत्ते सत्पुरुषास्तु केपि कमलां स्थाने व्ययन्ति स्वयम् ॥५८॥
तां दृष्ट्वैव शिवकुमारेण द्रागेवोत्थाप्य तत्कृते च राज्ञश्चन्द्रस्य जयरवं कर्तुमारेभे । मार्दङ्गिकैरपि तदनुकृतिं कुर्वन्दी राज्ञश्चन्द्रस्य जयध्वनिश्चक्रे | केनेदं दानं दत्तमिति जिज्ञासमानैदर्शकैस्तदवगमार्थं बहु चेष्टितम् । दत्तेष्वन्येषु वयमपि ददेमहि, इतीच्छद्भिस्तैर्मिलितायां कंस्यां सत्यां हृदयोल्लासेन मुक्तहस्तैर्दानं दत्तं यथा- केनचिद् रूप्यकम, परेण वस्त्राणि, तथाऽपरेण भूषणानि दत्तानि तेन शिवकुमारो मुमुदेतमां वीरमती च क्रोधानिनातीव जज्वाल | शिवकुमारश्चन्द्रराजस्य यशो गायन वीरमत्या गमनादेशं प्राप्य सपरिच्छदः स्वनिवेशस्थानमाजगाम | गते नटे सा क्रोधज्वालामुखिगिरिरिव विशीर्णा-विदीर्णाऽभूत्तया रुषाऽरुणं लोचनं विस्फार्योचे-क एतादृशो धनवानस्ति, येन मत्तोऽपि प्रथम पारितोषिकदानस्य दुःसाहसं कृतम् ? स्तोकं मयाऽपि दृष्टो
|| १५६ ।।