________________
चन्द्रराजचरित्रम् - षोडशः परिच्छेदः शिवमालायै चन्द्रनृपादिदानम् पुण्यार्थ पृष्ठं स्फालयद्भिस्तस्यै स्वाशीर्वादो दत्तः । यतःगुणेन स्पृहणीयः स्यान्न रूपेण युतो जनः । सौगन्ध्यवयं नादेयं, पुष्पं कान्तमपि स्वयम् ॥५६॥
तदनन्तरं राज्याः सम्मुखमुपस्थिता वाद्यं वादयन्तः सर्वे नटा राज्ञश्चन्द्रस्य जयध्वनिं कृत्वा तस्याः पार्थात्पारितोषिकं ययाचिरे । तेषामास्याद् राज्ञश्चन्द्रस्याख्यां निशम्य देव्यै वीरमत्यै प्रचुरमरुचिकरमलगत्, यतस्तस्याः समक्षे त्वन्यः कोऽपि प्रशंसनीयो नाऽऽसीत् । अन्यश्लाघामाकर्णयन्त्या एव तस्याः पादतलादाशीर्ष वपुर्व्वलति स्म । वराकाणां तेषां नटानां तस्या एतन्मनोवृत्तस्य ज्ञानं कुतो भवेत् ? अलब्धे पारितोषिके तस्या अपूर्ण मनोरञ्जनं मन्वानैस्तैः पुनरप्यनेकविधं नाट्यं दर्शयितुमारब्धम् । अथाऽपि पुनश्चन्द्रस्य जयरवं कुर्वाणास्ते तस्याः पार्थे पारितोषिकं मार्गयितुं गताः, परमस्यामपि वेलायां दृष्टिमुत्थाप्याऽपि तदभिमुखं नैवेक्षितम्। अन्याऽन्यदर्शकास्तत्कलाकौशल्येन रञ्जिता अपि तेभ्यः पारितोषिकं दातुं समुत्सुकाः सन्तोऽपि वीरमत्याः पूर्वं केषामपि साहसं नाऽभूत्। पूर्वप्रदानादसन्तुष्टा वीरमती दातृणामपि हानिकी भविष्यतीति सर्वे विदितवन्त आसन् । ।
राजा चन्द्रो यद्यपि कुक्कुटरूपी तथापि तस्मिन् सर्ववृत्तान्तस्याऽवगमशक्तिर्विद्यमानाऽऽसीदिति स स्वमनसि ध्यातवानएते नर्तका मम जयशब्दं कीर्तयन्तः सन्तीति मदोन्मत्ता मयीर्ष्यालुनिखिलबलाभिमानवती वीरमती तेभ्यः पारितोषिकं न दत्ते । यतः
|| १५५ ।।