________________
चन्द्रराजचरित्रम् - षोडशः परिच्छेदः शिवमालायै चन्द्रनृपादिदानम् वंशोपरि चटिता | ऊवं गता सा वंशाग्रे धृतपूगीफलस्योपरि स्वनाभिं संस्थाप्य, स्वोदरबलेन परितो वर्तुलाकारं भ्रमणं चक्रे | अधःस्था वाद्यं वादयन्तोऽनेके नटाश्च तदभिमुखं सावधानदृष्ट्या स्थिता आसन् । शिवमाला स्वदेहं कुलालचक्रवद् भ्रामं भ्रामं स्वकलाकौशलं दर्शयन्ती सकृत् तस्य पूगीफलस्योपरि कृतोर्ध्वपादाऽसौ स्वशिरोबलेन स्थिता, अर्थात्तस्याः शिरोऽधः पादौ चोर्ध्वमास्ताम् । यथा केचिद् हठयोगसाधकास्तपस्विनः शिरो नीचैः कृत्वा ध्यानं कुर्वन्ति तथा दृश्यं जातम् । अथ पुनरुत्प्लुत्य वामपादतलेन तत्पूगीफले स्थित्वा तदैकेन पादतलाश्रयेण परिभ्रम्य परिभ्रम्य लास्यं कुर्वत्यास्तस्या लास्यं सर्वे जना मुक्तकण्ठं प्रशशंसुः । चान्ते तया पञ्चरङ्गरञ्जितानि पञ्च वस्त्राण्यादाय तस्मिन् वंशे स्थितयैव परस्परं गुम्फित्वा तेषामेकं पञ्चरङ्गपुष्पं निर्मितम् । तदानीमपि तच्छरीरं मनागपीतस्ततो न चलितं, न च तया पुष्पविर-चने भ्रमः कृतः । तदद्भुतकलामिमां वीक्ष्य सर्वे दर्शका मुग्धा बभूवुः ।
यतः
देवानामिदमामनन्ति मुनयः कान्तं क्रतुं चाक्षुषं, रुद्रेणेदमुमाकृतव्यतिकरे स्वाङ्गे विभक्तं द्विधा । त्रैगुण्योद्भवमत्र लोकचरितं नानारसं दृश्यते, नाट्यं भिन्नरुचेर्जनस्य बहुधाऽप्येकं समाराधनम् ॥५५॥
__स्वीयामदभुतकलां दर्शयित्वाऽनन्तरं सा वंशबद्धरज्ज्वाश्रयेण नागिनीवाऽधोऽवततार | नीचैरवतरितायामेव तस्यां, तज्जनकेनान्यैश्च नटैीवया शिवमालाग्रीवां संश्लिष्य तत्कलानै
|| १५४ ।।