________________
चन्द्रराजचरित्रम् - पञ्चदशः परिच्छेदः
कामं प्रियानपि प्राणा - न्विमुञ्चन्ति मनस्विनः । इच्छन्ति न त्यमित्रेभ्यो, महतीमपि सत्क्रियाम्
आभापुर्यां हेमरथनृपस्याऽऽक्रमणम्
॥५१॥
मन्त्रिण उत्साहवर्धकमदो वचो निशम्य तदानीमेव भटानां भुजाः पुस्फुरुः । ते युद्धयात्रार्थं सपद्येव सज्जा अभूवन्, एकत्रिते सकले सैन्ये मन्त्रिणा द्रागेव रणभेर्यादिना सत्रा संग्रामार्थं प्रस्थानं चक्रे । यथासमयमुभयोर्भटयोर्मेलापकं जातं, तुमुलं युद्धं प्रारेभे, यथा- पत्तिभिः पत्तयः, अश्ववारैरश्ववाराः, हस्त्यारोहैर्हस्त्यारोहाः, रथिमी रथिनो युयुधिरे । तदानीं चपलेव चपला असयो विचकासिरे, घटिकां यावद् घोरं युद्धं बभूव । कातरैः पृष्ठं दर्शयित्वा प्राणा रक्षिता, वीरैः स्वासिं शत्रुरुधिरं पाययित्वाऽन्ते वीरगतिः प्रपेदे, कृत्स्नाऽपि रणभूर्भृतसुभटेभाश्वशरीरैर्व्यानशे । राज्ञो हेमरथस्य परकीयराज्यादानस्य स्पृहा चाभीयवीराणां स्वमातृभू रक्षितव्या आसीत् । एवमेकत्र प्रलोभस्य परत्र प्रतिष्ठारक्षणस्य प्रश्नोऽजनि, परमिदं प्राचीनं शास्त्रवचनम् - यतो धर्मस्ततो जयः
यतः
धर्मो जगतः सारः, सर्वसुखानां प्रधानहेतुत्वात् । तस्योत्पत्तिर्मनुजा - त्सारं तेनैव मानुष्यम्
।। १५० ।।
॥५२॥
आभीयवीराणामुद्देशो वर आसीत्, ततस्तेषूत्साहमात्राऽपि प्रचुरतराऽविद्यत, हेमरथीया सेना बहुकालं स्थातुं नाऽशकत्तस्या अनेके भटा मृता अनेके च कान्दिशीकाः सञ्जाताः । पूर्ववदत्रावसरेऽपि हेमरथस्य घोरः पराजयो जातः, प्रान्ते प्रधानाज्ञया स जीवन्नेव निगृह्य स्ववशीकृतः । इत्थं विजयवाद्यं वादयता हेमरथं