________________
चन्द्रराजचरित्रम् - पञ्चदशः परिच्छेदः
समायुक्तोऽप्यर्थैः परिभवपदं याति कृपणः । स्वभावादुद्भूतां गुणसमुदयावाप्तिविषयां, द्युतिं सैंहीं किं धा धृतकनकमालोऽपि लभते ?
आभापुर्यां हेमरथनृपस्याऽऽक्रमणम्
॥४९॥
तस्यास्तदा बलवदादेशं निशम्य राजसदो गतेन तेन समस्तं सैनिकं संमील्य वीरमत्यादेशः श्रावितः सहैव च तेनोक्तम्राजा हेमरथ आभानगरीनिकटमागत्योपस्थितोऽस्ति, अतो वयं तेन यदि न योत्स्यामहे तदा स आभानगरीमात्मसात्करिष्यति, वयं च संकटे पतिष्यामः । किं वयमिदानीं स्वमातृभूमिरक्षां न T करिष्यामहे ? किं वयमित्थमेव हस्ते हस्तं रक्षित्वोपविष्टाः स्याम? क्षत्रियत्वं कलङ्कितं कुर्याम्, नहि नहि स्वप्नेऽप्येवं न भविष्यति । यद्यस्मासु जीवत्सु सोऽध्यकरिष्यत्तदा पुनर्वयं जगति मुखं कथमद्रक्ष्याम ? अत्र विषयेऽस्माकं क्षात्रतेजोवतां वीरमत्याः किमपि नहि किन्तु स्वकुलाभिमानो द्रष्टव्यः ।
यतः
बालस्यापि रवेः पादाः, पतन्त्युपरि भूभृताम् । तेजसा सह जातानां, ययः कुत्रोपयुज्यते ?
॥५०॥
यदि राजा चन्द्रस्ताम्रचूडो जातस्तेन किमभूत् ? तेन स्वसेवा छन्ना स्थातुं न शक्नोति । अस्माभिस्तु साम्प्रतं निजमातृभुवमाभानगरीमभिद्रष्टव्यं यतस्तद्रक्षाकरणं स्वकर्तव्यमस्ति । अत उत्तिष्ठन्तु मनस्विनो वीराः ! कटिबद्धा भूत्वा शत्रोर्मानमर्दनार्थं सन्नद्धा भवन्तु ।
यतः
।। १४६ ।।