________________
चन्द्रराजचरित्रम् पञ्चदशः परिच्छेदः
I
I
।
आभापुर्यां हेमरथनृपस्याऽऽक्रमणम् तस्तस्य नूनमेव हिमालयराज्यं ग्रहीष्यामि । पतङ्गस्य मरणसमय एव पक्षोदभवो भवति, तेन तं काल एव प्रेरयन्नस्तीति मन्ये । एवं कटूक्तं श्रावयन्त्या तया प्रेषितेन दूतेन निखिलं तद्वृत्तं राज्ञे कथितम्, सहैव च स्वसम्मतिरपि दत्ता - इयं स्त्री वक्तुं योग्या नास्ति, परमहङ्कारिणा हेमरथेन तत्कथनमगणयित्वाऽऽक्रमणाय सामग्री सज्जीचक्रे । स्रागेव रथाश्वकुञ्जरेण समं महतीं सेनामादायाऽऽभानगरीं निकषा स्थितेन तेन मनसि विचारितम् - अस्या एकस्या योषितो हस्तादाभाराज्यग्रहणं किं दुष्करमस्ति ? इदं कार्यं तु पश्यत्स्वेव जनेषु ममाऽधीनं भविष्यति, तस्यां तादृक् सामर्थ्यमेव कुतः स्याद्येन सा मम समक्षमागत्य युद्धं कुर्यात् । एतद्विचार्य स आभापुरीं यावदतिरयेणाऽऽगतः परं तत्राऽऽगतस्य तस्य मनोवृत्तं मनस्येव स्थितम्, प्रत्युताऽसमञ्जसे पतितः । वीरमत्यै हेमरथस्य युद्धविधानवार्ता युद्धयात्रासमयादेव मिलिताऽऽसीत्, किन्तु तया तच्चिन्ता न कृता । यदा स निकटतरमागतस्तदा तया मन्त्रिणमाकार्योक्तम् - मन्त्रिन् ! भवतेदं श्रुतं भवेत्, यद्धेमरथ आभानगर्यासन्न आगतोऽस्ति, स च सामान्यश्रेणिको राजेति तेन सह योद्धुमहं स्वयं युद्धक्षेत्रे गमनं युक्तं न मन्ये । तस्मिन् मे स्वाऽप्रतिष्ठा लक्ष्यते, ततो भवानेव सकलं सैन्यं लात्वा रणक्षेत्रे यातु, तं च परितोऽवरुध्य तद्वाष्यय कर्कशो दण्डो दातव्यः । मयाऽऽशीर्दीयते, यद्विजयलक्ष्मीर्भवन्तमेव वरीष्यतीति भवत एकमपि रोम वक्रं न भविष्यति भवता चिन्तालेशोऽपि न कर्तव्यः ।
/
I
I
यतः
विनाऽप्यर्थैर्वीरः स्पृशति बहुमानोन्नतिपदं,
।। १४८ ।।