________________
चन्द्रराजचरित्रम् - पञ्चदशः परिच्छेदः
आभापुर्या हेमरथनृपस्याऽऽक्रमणम्
अथ श्रीचन्द्रराजसंस्कृतचरित्रस्य
पञ्चदशपरिच्छेदे आभापुर्यां हेमरथनृपस्याऽऽक्रमणम्
राज्ञा हेमरथेन तां साधारणस्त्रीं जानता राज्यमात्मसाद्विधातुं युद्धोद्योगे परिपूर्णे वीरमत्याः पार्चे स्वदूतेनैकं पत्रं प्रेषितम्, यस्मिन् धृष्टवचनेन साधं युद्धसूचना दत्ताऽऽसीत् | यथासमयं वीरमत्याः सदस्युपस्थितेन दूतेन तत्पत्रं तस्यै दत्तं, पत्रं पठन्त्या क्रोधारुणलोचनया कोपानिना दन्दह्यमानया तया सकोपाटोपमूचे- हे दूत! तव स्वामिना मद्राज्यग्रहणाय स्वस्याऽऽगमनं लिखितमस्ति, परं तत्र गत्वा तस्मा इदं वक्तव्यम्- तया त्वं सत्वरमाकारितोऽसि। यदि त्वं नरंमन्योऽसि राड्युदरात्ते जन्म भवेत्, सत्यमातुः स्तन्यं पीतं, अपि च स्वात्मानं क्षात्रं मन्यसे तदा साम्प्रतं क्षणमपि विलम्बमकृत्वैव द्रुतमागच्छ । यतः सत्क्षत्रिया इत्थमेवामिलषन्तियथासत्क्षत्रियास्ते किल सर्वकाले, ये योद्धमात्मानमहर्निशं वै । समुत्सृजन्तश्च सुराङ्गनाया आश्लेषसौख्यं स्पृहयन्ति नान्यत्॥४८॥ ____ अतोऽत्राऽऽगत्य त्वया स्वशौर्यं दर्शनीयम् । यदेतः पराजित्य नीचवद् गन्तुमभवत्तदा तस्य स्थितिः कीदृशी जाता ? अनेनाऽनुमन्यते, यत्तेन पूर्वं दिनं विस्मृतमस्ति परं न मया विस्मृतम्। तेनाऽहं न दृष्टाऽत आभापूरी-राज्यग्रहणं सुलभं ज्ञायते, परं यदाऽत्राऽऽगमिष्यत्तदा तस्य ज्ञातोऽभविष्यत् । आभाराज्यमिच्छ
|| १४७ ।।