________________
चन्द्रराजचरित्रम् - चतुर्दशः परिच्छेदः
वीरमत्याः प्रपञ्चः
कथं क्रियते ? मया त्वयमाभूषणं मन्यमानया क्रीतः, अतोऽस्याल्पव्ययो न लिखितः । इयं ते वार्ता मे न रोचतेऽतो विचार्य वक्तव्यम्, यद्यत्र विषये पुनरपि प्रक्ष्यते, तदा भवतोऽप्यवस्था ताम्रचूडवदेव भविष्यति । तच्छ्रुत्वा मौनमालम्बितस्य मन्त्रिणो मुखादेकस्यापि शब्दस्योच्चारणसाहसं नाऽतिष्ठत्तदा तेन दृष्टम् - मन्दिरे समुपविष्टा गुणावली रोदितीति, तदा वक्तुमप्यसमर्था सा करतललिखिताक्षरं दर्शयित्वाऽयमेव चन्द्र इति तं सूचितवती, सद्यो ज्ञातवृत्तोऽपि मन्त्री वीरमतीमकथयित्वैव ततो निःसृत्य तूष्णीं स्वगृहमाययौ । ततः शनैः शनैरियं वार्ता परितः प्रसृता, यद्राज्यलोभे पतितया वीरमत्या चन्द्रस्ताम्रचूडो विहितः परं तद्भयेन नष्टसाहसैः सर्वैः किमपि तां वक्तुं श्रोतुं न शेके । तस्या अद्भुतविद्यायाः प्रशंसा - श्रवणेन भूपालैरपि तद्द्वश्यताऽङ्गीचक्रे । तदानीं तद्भीताः सर्वे तत्कृपापात्रतयैव स्वकल्याणं विविदुः परं सदसद्वार्ताया द्रुतं प्रसिद्धिर्भवत्येव । बहुशः पराजितेन हिमालयस्य हेमरथराजेन सह चन्द्रस्य पुरातनं शात्रवमासीत् । अतोऽमुमवसरमुपयुक्तं मन्वानो मनसि वैरमावहन् स तत्प्रतिक्रियायाश्चिकीरासीत् । वीरमत्या विद्यायाः प्रभावं जानन्नपि तद्वृत्तं कपोलकल्पितमिव ज्ञात्वा स एवैकस्तादृश आसीत्, यस्तद्भयमगणयन् मनस्येव तद्राज्यग्रहणाय युद्धोद्योगं कर्तुं लग्नः ।
"
I
B
।। १४६ ।।
,