________________
चन्द्रराजचरित्रम् - चतुर्दशः परिच्छेदः
वीरमत्याः प्रपञ्चः मन्त्रिणोऽनेन तोषकवचनेन मनसि सुप्रसन्नया स्वदूषणेनाऽलज्जितया मन्त्रिणः पृष्ठं प्रोज्छन्त्या तयोक्तम्- मन्त्रिन् ! तव स्तुतिसेवया प्रसन्नाऽस्मि, यदि कदाचिन्मम योग्यं कार्य निवेदयिष्यसि, तदाऽहं तत्सम्पादयिष्यामि । तदुक्तिमाकर्णयता तेन स्वान्ते ध्यातम्- अहो ! भाग्येनैतत्संभवति यत्सिंही प्रतीहारीत्वं व्रजेत, तदानीमेव मन्त्रिणो दृष्टिः कुक्कुटपिञ्जरोपरि पतिता । तेन वीरमती पृष्टा- राज्ञि ! त्वयेदं किं कृतं ? अयं कश्चिद्देवस्तु नाऽस्ति, वशीकृतो य इत्थं पिअरे रक्षितोऽस्ति ? तयोक्तम्- नाऽयं कश्चिद्देवः, अयं तु वध्वा मनोरञ्जनाय क्रीतोऽस्ति, अतिकष्टमनुभवन्तमेनं दृष्ट्वा दययाऽयं लातोऽस्ति । यदुक्तम्न सा दीक्षा न सा भिक्षा, न तद्दानं न तत्तपः । न तद्ध्यानं न तन्मौनं, दया यत्र न विद्यते ॥४६॥ अपि च - पठितं श्रुतं च शास्त्रं, गुरुपरिचरणं गुरु तपश्चरणम् । घनगर्जितमिव विपुलं, विफलं सकलं दयायिकलम् ॥४७॥
यावदत्राऽस्याऽन्नजलयोगो भविष्यति तावदत्स्यति, अस्य भुक्तं निष्फलं न भवति, यतोऽयं मामीधराराधनाय प्रातः स्वकलरवेण सत्वरमुत्थापयति । मन्त्रिणोक्तम्- भवत्याः कथनं सत्यं परं क्रीतवन्न लक्ष्यते, यतोऽस्य व्ययो बहिकायां लिखितो नाऽस्ति । तवाऽऽयव्ययवार्ता मत्तो गुप्ता नो विद्यते । तदा वीरमत्या किञ्चित् कर्कशवचसा प्रोक्तम्- मन्त्रिन् ! अल्पवार्तार्थ भूयो भूयः प्रश्नः
|| १४५ ।।