________________
चन्द्रराजचरित्रम् - चतुर्दशः परिच्छेदः
वीरमत्याः प्रपञ्चः जगत्यां स्त्रीषु पुरुषस्याऽऽज्ञा दृष्टा श्रुता च, परं तत्प्रतिकूलं तु सर्वथाऽसंभवि, आभापुरीमन्तरेणान्यत्र कुत्राऽप्येवं न भविष्यति। इदं तु स्त्रीराज्यं जातं कश्चिदेतच्छ्रोष्यति चेत्तदैवं कथयिष्यतियत्तत्र कश्चित्पुरुषो न भविष्यति, तदैव तु वीरमत्या राज्यशासनभारो गृहीतोऽस्ति । चतुर्दिक्ष्वेतस्या एव चर्चा प्रवर्तिताऽनया व्यवस्थयाऽतिदूना अपि प्रजा वीरमत्याः साध्वसेन तद्विरोधकरणेऽशक्ता अभूवन्, अतः सा निर्विघ्नतया राज्यशासनं कर्तुं लगा । तेनातिगर्वितायास्तस्याः शासनं महान्तोऽपि स्वीकर्तुं लग्नाः, कियद्दिने गते तु प्रजासु चन्द्रस्य नामोच्चारणमपि यमामन्त्रणमिव जातम्। एनां राज्युक्तिं स्वीकुर्वन् सचिवोऽपि तत्तुष्ट्यर्थं चन्द्रस्य नामोच्चारणमत्याक्षीत् । अथैकदा वीरमतीं प्रति तेनोक्तम्- राज्ञि ! तव शासनपद्धतिरत्युत्तमा, यतः शासनकार्ये त्वियत्साफल्यं राज्ञाऽपि न लब्धं, अत्र राज्ये स्तेनस्य नामाऽपि न श्रूयते, विरोधिनोऽपि सत्त्वाः परस्परं सानुकूला इव वर्तन्ते । तव कृतां चर्ममुद्रामपि जना मुदाऽङ्गीकर्तुमर्हन्ति, त्रैकालिकानामपि राज्ञामीदृशी व्यवस्था न दृष्टा न च श्रुताऽस्ति । स्त्रीजातौ सत्यामपि त्वयि काऽपि न्यूनता न दरीदृश्यते यतो वसुधाऽपि स्त्रीजात्यन्तर्गतैवाऽस्ति । महोन्नतशिरसो महान्तोऽपि त्वां नमन्ति, तस्मात्त्वं पुण्यशालिषु राजवर्गेषु सर्वेषु धन्यतमाऽसि । किमधिकं तदुक्तं च - त्वत्कीर्तिः कापि गङ्गाखिलमलनिचयं नाशयन्ती गभीरं, क्षीराब्धिं त्वत्प्रतापज्वलनकरगणैः शोषितं पूरयन्ती । भूलोकस्याऽन्तरालस्फुरदतुलमहादुःखपापौघपङ्क, भूयः प्रक्षालयन्ती त्रिजगति महिता सौख्यमाविष्करोति॥४५॥
|| १४४ ।।