________________
चन्द्रराजचरित्रम् - पञ्चदशः परिच्छेदः
आभापुर्यां हेमरथनृपस्याऽऽक्रमणम्
विजित्य प्रधानेन स्वशेषभटैर्नगरप्रवेशश्चक्रे । बन्दीभूतो हेमरथनृपो झटित्येव वीरमतीसमीपे समानीतस्तं पश्यन्त्या तया सभर्त्सनमूचेहे रणवीर ! स्वबलस्य महान् गर्वस्ते क्व गतः ? सदैव नीचैर्दृष्टेन त्वयाऽऽभाग्रहणायेदृशी धृष्टता कथं कृता ? किमाभानगर्याः क्षेत्रं न दृष्टमासीत्, यदत्राऽऽगमनदुःसाहसं कृतम् ? अथवा प्रकृतिरियं दुर्जनानां यत्स्वबलाबलमविचार्य द्रुतमेव तुलावदुन्नत्यवनती प्राप्नुवन्ति ।
स्तोकेनोन्नतिमायाति, स्तोकेनायात्यधोगतिम् । अहो ! तु सदृशी वृत्ति-स्तुलाकोटेः खलस्य च
॥५३॥
त्वं मामबलां ज्ञात्वा मया योद्धुमागतः परं मया सह संग्रामस्तु दूरेऽतिष्ठत् ममाऽमात्येन पत्तिभिश्चैव त्वं पराजितः । कथय साम्प्रतं त्वं स्त्री वर्तसे वाहमस्मि ? त्वया सर्वदेदं स्मरणीयम्यदि त्वमिभोऽसि, तर्हि केसरिणं मां जानीहि, यदि त्वं कपोतस्तदाहं श्येनोऽस्मि, यदा त्वं सर्पस्तदा नकुलोऽस्मि, चेत्त्वमाखुस्तदाहमोतुरिति विदित्वाऽतः परमज्ञानतोऽपि मद्राज्यसीम्नि पदारोपणं करिष्यसि चेत्तर्हि कदापि तन्नो सहिष्ये । भृशमपमानितस्याऽपि तेऽत्रागमने मनागपि त्रपा कथं न समायाति ? त्वं कटिप्रान्ते करवालं बध्नास्युत काष्ठक्रीडनम् ? चन्द्रेण कतिकृत्वस्ते जीवदानं दत्तमतस्तत्प्रत्युपकारायैव त्वमत्राऽऽगमः किम् ? किं सत्क्षत्रियाणामिदमेव कर्तव्यमस्ति ? इत्थं वीरमत्या स बहु निभर्सितः । कारागारे सर्वदार्थं जिगालयिषन्ती साऽनुचितमिति मन्वानेन मन्त्रिणोचे - राज्ञि ! शाचतिकशत्रुत्वापेक्षया तं निजवैरिणमपि
।। १५१ ।।