________________
चन्द्रराजचरित्रम् - चतुर्दशः परिच्छेदः
वीरमत्याः प्रपञ्चः राज्ञश्चन्द्रस्याऽन्वेषणाय मन्त्रिणा तया सहैवं वार्तायां कृतायामपि तत्प्रभावस्तस्यां किञ्चिदपि न पपात | राजमात्रा मन्त्रिणः समस्तं कथनं श्रुत्वोक्तम्- मन्त्रिन ! महाराजस्याऽन्वेषणं कर्तुमागतस्य ते सम्यग विदितमेव, यत्त्वयैव स निहतोऽस्ति, सम्प्रति तमपराधमपह्रोतुमेवं वार्ता विरचयन्नसि, परं मयि तवेदं चातुर्यं सफलतां नैष्यति । बहुदिनादेतद् वृत्तं ज्ञातवत्याऽपि मया कुत्राऽपि न प्रकटितम्, यदाऽद्य पश्यामि त्वमेवं विरुद्धं मां पाठयितुमागतोऽसि, तदा मम स्पष्टं वक्तव्यं भवति- मम प्रियपुत्रस्त्वयैव हतोऽस्ति, ममाग्रे च सत्यवक्ता भवितुमागतोऽसि । यद्यहं निन्द्याऽस्मि, तदा त्वं कथमुत्तमो भवितुमर्हसि ? यदि त्वम्मेऽपकीर्तिकरस्तदाऽहमपि त्वां कथं निर्दोषं त्यक्ष्यामि ? ममाऽपकारं कृत्वा त्वमपि सुकृतं नोद्वक्ष्यसि, पुनरन्ते तवापि चिन्तितं नैव सेत्स्यति । यतःसर्पाणां च खलानां च, चौराणां च विशेषतः । अभिप्राया न सिद्ध्यन्ति, तेनेदं वर्तते जगत्
॥४०॥ तदुक्तिं श्रुत्वैव क्षोभितेन तेनोक्तम्- राजमातः ! किमिदमुच्यते ? वृद्धया त्वया विचार्य किञ्चिद् वक्तव्यम् । तद्घातकं मां केन हेतुना कथयसि ? किं तेन मे विराद्धं येन मया स हतः ? इत्थमनृतवचनेन ते को लाभो भविष्यति ? | उक्तमपिनासत्यवादिनः सख्यं, न पुण्यं न यशो भुवि ।
।। १४१ ।।