________________
चन्द्रराजचरित्रम् - चतुर्दशः परिच्छेदः
वीरमत्याः प्रपञ्चः दृश्यते नाऽपि कल्याणं, कालकूटमियानतः ॥४१॥
__ अत ईश्वरस्यापि किञ्चिद् भयं रक्षितव्यं, राज्यहितार्थं तव पार्थागतस्य मे भवती गले पतिता, परं नेदं हास्यं यन्मामित्थं मूर्खमापादयसि । वद चन्द्रं केन हेतुना कथं च हन्तुं शक्नोमि ? तत्त्वमेव दर्शय । तत्प्रमाणं च तव पार्थे किमस्ति ? तं प्रतारयन्त्या तयोक्तम्- पश्य, मन्त्रिन् ! चतुरो भूत्वाऽपि त्वं तुच्छमपि वृत्तं नाऽवगच्छसि, संप्रति चन्द्रस्य वार्ताकरणमपि निष्फलं | यदि त्वं ममाऽग्रे तद्वार्ता पुनः करिष्यसि, तर्हि तस्यास्ते दुष्टः परिणामो भविष्यति । हुं यदि सरलतया प्रक्ष्यसि तदाऽहं ते सत्यं वक्ष्ये, परमियमपि स्मृती रक्षितव्या, यद् गृहभेदं तुभ्यमेव गदामि, अतः कस्याप्यग्रे तवृत्तं न प्रकाश्यम् । सत्यमदोऽस्ति यद्राजा चन्द्रोऽधुना विद्याधरस्य काञ्चिद् विद्यां साधयन्नस्ति, तेन स प्रकटीभवितुं नाऽर्हति । अतःपरं त्वया तन्नामाऽपि न वाच्यं, तत्स्थाने मामेव नृपं मत्वा ममाऽऽज्ञां प्रतिपालय । अत्र काऽपि बाधा त्वया न दास्यते चेत्तदा त्वामेव मन्त्रिपदे रक्षिष्यामि, अन्यथाऽन्यमेव त्वत्स्थाने नियोक्ष्यामि, यतः स्वाम्यादेशपरिपालक एव भृत्यः सर्वदा विश्वसनीयः प्रेमास्पदं च बोभूयते । यतःप्रोक्तः प्रत्युत्तरं नाऽऽह, विरुद्धं प्रभुणा च यः । न समीपे हसत्युच्चैः, स भवेद्राजवल्लभः ॥४२॥
त्वं चतुरोऽसीत्याशासे यदेतावतैव सर्वं ज्ञास्यसि । यदाऽहं स्वयं राज्यधुरं वोढुमर्हाऽस्मि, तदा कस्याऽपि किञ्चित्कथनस्य
|| १४२ ।।