________________
चन्द्रराजचरित्रम् - चतुर्दशः परिच्छेदः राजन्यसति लोकेऽस्मिन् कुतो भार्या कुतो धनम्
वीरमत्याः प्रपञ्चः
મેળા
एतन्निशम्य स सुबुद्धिमन्त्री नागरिकान् सान्त्वयन्नुवाचचिन्तां जहित, नगरं त्यक्त्वाऽन्यत्र गमनेनाऽलं, मासाऽवधितो मयाऽपि स नो दृष्टः, तथा युष्माकमिवाऽहमपि तद्दिदृक्षया लालायितो भवामि । अद्य राजमातुरन्तिकं गत्वाऽवश्यं तदन्वेषणं कृत्वा यथासमाचारं भवद्भ्योऽपि निवेदयिष्यामि, कृपया तावत्कालं धैर्यमाधत्त । इत्थं बोधिताः प्रजा विसृज्य मन्त्रिणा राजमातुरन्तिकमेत्य प्रजानां वार्ता निवेदिता - राजमातः ! नगरे विविधं वातावरणं प्रसरति, राजमात्रा राजा गुप्तीकृत्य रक्षितोऽस्ति, परमेवं कियत्कालं गुप्तं रक्षितुमर्हतीति ? यदि मे कथनमन्यथा न मन्येत, तदा क्षमस्व, सम्यक् चामुं वृत्तं जानीहि इदं राज्यकार्यं, न बालकानां क्रीडनमस्ति, राज्ञोऽनुपस्थित्या प्रजासु महानसन्तोष उत्पद्यते । एवं जाते जनोपद्रवोऽपि संभाव्यते, महाराजस्य बहुकालिकाऽनुपस्थितावित्थमेव किंवदन्ती प्रसरिष्यति, अपि च शत्रवोऽपि प्रोत्साहिता भूत्वोत्थास्यन्ति । श्रीमती राजमातेति भवत्या किमपि गुप्तं नो वर्तते, कृपया कथयतु - महाराजश्चन्द्रः कुत्र वर्तते कदा च तद्दर्शनं भविष्यति ? विलम्बेन प्रकटितेऽपि महाराजे सर्वत्राऽशान्त्या घोरकोलाहलो भविष्यति । भवती नाऽनभिज्ञा, एतत्सकलं वृत्तं ज्ञायत एव तथाऽपि पूर्वमेव भवतीं सूचयन्नस्मि, येन भविष्ये ममाऽपराधं न जानीयात् ।
यतः
अरैः संधार्यते नाभि-र्नाभौ चाराः प्रतिष्ठिताः । स्वामिप्रधानयोरेवं वृत्तिचक्रं प्रवर्तते
।। १४० ।।
॥३९॥