________________
चन्द्रराजचरित्रम् - चतुर्दशः परिच्छेदः
वीरमत्याः प्रपञ्चः
अथ श्रीचन्द्रराजसंस्कृतचरित्रस्य चतुर्दशपरिच्छेदे वीरमत्याः प्रपञ्चः
कुक्कुटभूतस्य राज्ञश्चन्द्रस्य मासे गते तद्दर्शनं विना प्रजाः क्षोभमागताः । गुणावली तु श्रूभयेन कृकवाकुमदृश्यमेवाऽरक्षत्। यतः पुनरप्रसन्नतायाः कारणे प्राप्ते वस्तं जीवन्तं न त्यक्ष्यतीति तस्या विश्वास आसीत् । एकदा संभूय नागरिका मन्त्रिसमीपमेत्योचुः- हे मन्त्रिन् ! कृपयाऽद्याऽस्माकं राजदर्शनं कारय, यतो मासो गतोऽस्माभिः स न दृष्टोऽस्ति, अतोऽस्माकं मनो व्याकुलं भवति । दर्शनमकरिष्यमाणा वयमितो देशान्तरं गत्वा निवसिष्यामः । शास्त्रकृतामप्युक्तिरस्ति - यथा निर्दयो धर्मः, सुकुलरहितं मनुष्यजन्म, दन्ताभ्यां विना गजः, मूर्तिं विना मन्दिरं, पुत्रं विनाऽऽलयं, जलं विना नदी, चन्द्रं विना रात्रिः, नेत्राभ्यां विना मुखं चेति शोभां नाऽऽवहति तथा भूपतिं विना राज्यमपि जानीहि । यतः प्रजानामखिलं वृत्तं राजनि निर्भरं तिष्ठति ।
│
यतः
राज्ञि धर्मिणि धर्मिष्ठाः, पापे पापाः समे समाः । राजानमनुवर्त्तन्ते, यथा राजा तथा प्रजाः
1
રૂણા
यदि राजा न भवेत्तदा नगरवासेन किम् ? वन एव कथं न वसेम ? |
यतः
राजानं प्रथमं विन्देत्, ततो भार्यां ततो धनम् ।
।। १३६ ।।