________________
चन्द्रराजचरित्रम् - त्रयोदशः परिच्छेदः आभानरेशस्याऽन्वेषणम् पूर्णशुद्धिर्मिलितेति जानती द्रुतं योगिन्या सह राजान्तिकमागता। योगिन्या च राज्ञश्चन्द्रस्य सकला वार्ता विज्ञापिता, तेन राजा मकरध्वजो महान्तमानन्दं प्राप्तस्सन् प्रेमलामुवाच- प्रियपुत्रि ! निःसन्देहं ते कथनं सत्यं वर्तते, तव पतिरतिभाग्यशाली ज्ञायते, तद्देशस्त्वितो, दूरेऽस्ति, सहैव तन्मात्रा स चरणायुधो विरचितस्तस्मात्तत्संगमोऽतिदुष्करोऽस्ति, अतस्त्वया चिन्तां परित्यज्य धैर्य धारणीयम् । यतःसदा सदाचारपरायणात्मनां, विवेकधाराशतधौतचेतसाम् । जिनोदितं पण्डितमृत्युमीयुषां, न जातु शोच्यं महतां महीतले॥३५॥
अनुकूले दैवे सर्व शोभनं भविष्यति, पितुरमुमुपदेशं ध्यानपुरःसरं श्रुत्वाऽनन्तरं सा तां योगिनी सहाऽऽनीय प्रेमभरेण भोजयामास । ततः सा यथासमयमन्यत्र गता, प्रेमला च पूर्ववत्पति स्मरन्ती धर्माऽऽचरणेन सुखेन कालं व्यतीयाय । यतःधर्मेण हन्यते व्याधि-हन्यन्ते यै तथा ग्रहाः । धर्मेण हन्यते शत्रु-र्यतो धर्मस्ततो जयः
॥३६॥
धर्मेण हन्यते बाधितधन्ने स्वै तथा ग्रहाः ।
|| १३८ ।